पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
136
[अरण्यकाण्ड:
शूर्पणखाssगम:


पूर्वदर्शनात्-प्रथमदर्श नक्षणमारभ्य। अपूर्वदर्शनात् इत्यपि पदम् । अपूर्वदर्शनात् – देवदानव मर्त्येषु इतः प्राक् अदृष्टदिव्यस्वरूपदर्शना- देतोः । भर्तृभावेन समुपेताऽस्मि । स्वच्छन्दबलगामिनी-स्वच्छन्द- तया - स्वेच्छ्यैव बलेन स्वबलेन भ्रातृबलेन च सर्वलोकगमनशीला | यदेवं अतः - चिरायेत्यादि ॥ २६ ॥

विकृता च विरूपा च न चेयं सदृशी तव ।
अहमेवानुरूपा ते [१] भार्या रूपेण पश्य माम् ॥ २७ ॥

विकृतेत्यादिना सीतायाः दूषणं, स्वस्याः देवयोनिभेदत्वेन अभिमत रूप ग्रहणसामर्थ्यात् ॥ २७ ॥

[२]इमां विरूपामसत करालां निर्णवोदरीम |
अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम् ॥ २८ ॥

ततः पर्वतशृङ्गाणि वनानि विविधानि च ।
पश्यन् सह मया, कान्त ! दण्डकान् विचरिष्यसि ॥ २९॥

 निर्णतं- निरतिशयनिनं उदरं यस्याः सा तथा ॥ २९ ॥

इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् ।
इदं वचनमारेभे वक्तुं वाक्यविशारदः ॥ ३० ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे सप्तदशः सर्गः



 नड (३०) मानः सर्गः ॥ ३० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे सप्तदशः सर्गः





  1. भार्यारूपेण – स्वभार्यालेन-रा. रूपेण अहमेव ते अनुरूपा भार्या इति
    स्वरसोऽन्वयः ।
  2. कुरूपाणामपि मनुष्याणां मनः, स्वस्मिन्नत्र सुरूपं, इतरेषु कुरूपम्, परेषु विद्यमानगुणानपि दोषत्वेन च मनुत इति लोकसाधारणमिदं, आसुरप्रकृतीनां तु कैमुतिक-सिद्धम् । एवश्च ' निर्णतोदरीं' इत्यपि ' निर्णतोदरी' (18-13) इति शूर्पणखाविषयक-पदसमानार्षकमेव भवितुमर्हति ।