पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६ सर्गः]
125
कदाचिदमिषेकार्थं ते नु गोदावरीं ययुः



ज्योत्स्ना तुषारमलिना पौर्णमास्यां न राजते ।
[१].सीतेव चातपश्यामा लक्ष्यते न तु शोभते ॥ १४ ॥

 ज्योत्स्नेत भन्न म् । आतंपेन श्यामा-श्यामीभूतवर्णा तथा । यथा तथा लक्ष्यते केवलं सत्तामात्रेणेत्यर्थः ॥ १४ ॥

[२]:प्रकृत्या शीतलस्पर्शः हिमविद्धश्च सांप्रतम् ।
प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः ॥ १५ ॥

 प्रकृत्या शीतलस्पर्श इति । अनुष्णाशीतस्पर्शत्वात् शीतलस्पर्श इत्युपचर्यते । पश्चिमो वायुरिति पश्चिमयामवायुरित्यर्थः । काले- प्रातःकाले ॥ १५ ॥

[३]बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च ।
शोभन्तेऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः ।। १६ ।।

 बाष्पच्छन्नानि – बाप्प:- ऊष्मा, यथा हिमकाले प्रातः कूपोदकेष्वनुभूयते शुभा ॥ १६ ॥

खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः ।
शोभन्ते किञ्चि [४]दानम्राः शालयः कनकप्रभाः [५].।। १७ ।।



  1. सीतेव लक्ष्यते, किन्तु सीतावन्न शोभते । व्यतिरेकालङ्कारः- गो
  2. पायौ शीतस्पर्श एव स्वभावः उष्णस्पर्शस्त्वागन्तुक इति हृदयम्- गो. यद्वा सांप्रते- हेमन्ते प्रकृत्या-स्वत एव शीतलस्पर्शो वायुः काले - प्रातःकाले द्विगुणशीतल :प्रवातीत्यर्थ: । शैत्यस्य ऋतुधर्मत्वात् तदा वायु प्रकृत्यैव शीत इति कथने न हि विशेषः । अथ वा शीतलस्पर्श: अनुष्णस्पर्शः । तेन मध्यस्थत्वं उच्यते । एवञ्च
    प्रकृत्या मध्यस्पर्श, सांप्रतं - हेमन्ते हिमविद्धः काले – प्रात: द्विगुणशीतल इत्यर्थ
  3. शष्प-ड..
  4. दालम्बा:-ड. ज.
  5. एतदनन्तरं - निमनाः कर्णिकारेषु कनकपिङ्गलै:। गन्धान् केदारपद्मानां जिम्रन्ति वनशालयः - इत्यधिकं झ