पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
124
[अरण्यकाण्ड:
हेमन्तवर्णनम्



मृदुसूर्या: [१] सनीहाराः पटुशीता:[२] समारुताः ।
[३].शून्यारण्याः हिमध्वस्ताः दिवसा भान्ति सांप्रतम् ।।

 शून्यारण्या:- हिमवशबर्बरपर्णतः निःशोभाः इत्यर्थः । हिम- ध्वस्ताः - हिमनाशितपङ्कजादमतः ॥ ११ ॥

निवृत्ताकाशशयनाः [४].पुष्यनीता हिमारुणाः ।
शीतवृद्धतरायामा: त्रियामा यान्ति सांप्रतम् ॥ १२ ॥

 निवृत्तं आकाशे-अनावृतप्रदेशे शयनं यासु त्रियामासु ताः तथा । पुष्ययुक्तपौर्णमासीं नीता:-गताः, हिमारुणाः-हिमधूसराः, अरुणशब्दः सर्वतः इह कपोतकवर्णे प्रयुज्यते । शीतं वृद्धतरं यासु ताः तथा शीतवृद्धतराः आयामा:- दीर्घाश्च तथा ॥ १२ ॥

[५]रविसंक्रान्तसौभाग्यः तुषारारुणमण्डलः ।
निःश्वासान्ध इवादर्शः चन्द्रमाः न प्रकाशते ॥ १३ ॥

 रवौ संक्रान्तं सौभाग्यं - उपभोग्यत्वं यस्य स तथा । तुषारेण अरुणः - धूसरः मण्डलः यस्य स तथा । अत एव निःश्वासेन अन्धः - मलिनः आदर्श:-:-मुकुर इव न प्रकाशते ॥ १३ ॥



  1. सुनीहारा:-ङ. ज.
  2. समाहिताः- ङ. ज.
  3. आरण्या:- वनचराः, शून्या:; आवरणरहितत्वेन शीतपीडिता: न बहिः
    सन्चरन्तीत्यर्थः। हिमध्वस्ता: हिमध्वस्तजनवन्तः, शैत्येन पिण्डीभूतशरीरजना इत्यर्थः- गो
  4. पुष्यनीताः-पुष्यनक्षत्रबोधितरात्रिकालपरिमाणाः - ति. रा.पुष्ययुक्ता पौर्णमासी पुष्यं तत्प्रधाना इत्यर्थः । यद्वा पुष्यं-पुष्यमासः, तेन नीता:-पुष्यमाससन्निहिता इत्यर्थ:- गो
  5. इतरकाले यथा चन्द्रः सर्वसेव्यः, तथा हेमन्ते सूर्य एव सर्वसेव्यः
    तथा च जनैः असेव्यमान इति भावः ।