पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
90
[अरण्यकाण्ड:
आश्रममण्डलवासः



मार्ग निरोद्धुं निरतो भास्करस्याचलोत्तमः ।
निदेशं पालयन् यस्य विन्ध्यः शैलो न वर्धते ॥ ८५ ॥

 भास्करस्य मार्ग निरोद्धुं इति । किंचित् स्पर्धतः । महामेरुस्पर्ध- येति शेषः । न वर्धते इति । अद्यापीति शेषः ।। ८५ ।।

अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः ।
अगस्त्यस्याश्रमः श्रीमान् विनीतजनसेवितः ।। ८६ ।।

एष लोकार्चितः साधुः हिते नित्यरतः सताम् ।
अस्मानभिगतानेषः [१] श्रेयसा योजयिष्यति ।। ८७ ।।

आराधयिष्याम्यवाहं अगस्त्यं तं महामुनिम् ।
शेषं च वनवासस्य, सौम्य ! वत्स्याम्यहं, [२]'प्रभो !||८८॥

 प्रभो इति सर्वकोशेषु संबुध्यन्ततया पाकः पाठः [३] हे समर्थ ! शुश्रूषणचतुरेति यावत् || ८८ ।।

अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
अगस्त्यं [४] नियताहारं सततं पर्युपासते ।। ८९ ।।

नात्र जीवेन्मृपावादी क्रूरो वा यदि वा शठः ।
नृशंसः [५] कामवृत्तो वा मुनिरेष [६] तथाविधः ।। ९० ॥

 तथाविष इति । दुर्वृत्तासहिष्णुरिति यावत् ॥ ९० ।।



  1. वैष्णवधनु: प्रदानादिश्रेयसा योजयिष्यति ।।
  2. प्रभोः-ङ.
  3. महेश्वरतीर्थस्य 'प्रभोः' इति पाठ:। प्रभोः-अगस्त्यस्य वाक्यात् वनवासस्य शेषं-अवशिष्टकालं वत्स्यामि-स्वास्यामि-ती. प्रभो इत्युक्ति: लक्ष्मणस्या राजपुत्रत्वात् । प्रभोरिति पाठे प्रभो :- अगस्त्यस्य नियोगादिति शेष:- गो.
  4. नियताहारा:-ड.
  5. पापवृत्तो-ड.
  6. तथाविष:- तादृशप्रभावविशिष्टः, यः स्वाश्रितान् सर्वानपि स्वानिय करोतीस्वर्थः ।