पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११ सर्गः ]
89
तत: प्रस्थाय ते प्रायुः अगस्त्यस्याश्रमं शनैः



तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः
 [१].दिगियं दक्षिणा त्रासात् [२] दूरतो नोप [३]भुज्यते ॥ ८२ ||

 दक्षिणा दिगिति । अगस्त्याश्रम प्रदेशवर्तिनीति शेषः। तथा अग्रेऽपि । केवलं दूरतः त्रासात् - महर्षिनिमित्तमीत्या । नोपभुज्यते- न स्वदेशत्वेन परिगृह्य अनुभूयते इत्यर्थः ॥ ८२ ॥

यदाप्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा ।
 [४]तदाप्रभृति निर्वैराः प्रशान्ताः रजनीचराः ॥ ८३ ।।

 निर्वैश: इति । गजसिंहमृगव्या प्रादयः इति शेषः । प्रशान्ताः- क्रूरकृत्यरहिताः ।। ८३ ।।

 [५]नाम्ना चेयं भगवतो दक्षिणा दिक् प्रदक्षिणा ।
प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः ।। ८४ ॥ ११

 एवं भगवतो महिना दक्षिणा - निर्वैरत्वादिसंपादनसमर्था इयं दिक् - एतहिग्वर्त्याश्रमः इति यावत् अत एव नाम्ना प्रदक्षिणा इति त्रिषु लोकेषु प्रथिता ॥



  1. त्रासात दृश्यते, न तु प्राचीनकाल इवोपभुज्यते-गो. दृश्यते केवलं, त्रासाद
    महर्षिभीन्या नोपभुज्यते-ति. राक्षसैश्यते, भुज्यते तु न-रा. अस्य प्रभावात् राक्षसै:
    न दृश्यते, अस्य त्रासात् नोपभुज्यते-ती
  2. दृश्यते सर्वत्र.
  3. युगते-ङ,
  4. निर्देश: - वैरप्रवर्तनाशक्ताः- गो.
    निर्देरा: प्राणिषु-ति. दक्षिगा दिक् दुर्घर्षा क्रूरकर्मभि: ' इत्यनन्तरश्लोकोक्तेः,
    त्रासातू इति पूर्वश्लोकोक्तेक्ष गोविन्दराजीयोक्तं सम्यगेव । ननु तर्हि रामेण साध्यं किमस्ति ?
    इति चेत्, अगस्त्याश्रितदिग्मिन्नदिश्यपि रक्षः पीडापरिहारस्य,
    तनिर्मूलनस्य च रामैकसाध्यत्वान्न दोषः ॥
  5. नाम्ना - भगवतोऽगस्त्यस्य दिक् इति
    प्रसिद्धा-गो. ति. प्रदक्षिणा -- सज्जनाभिगम्या-ती. अतिकुशलवंती-रा.