पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१० सर्ग: ]
71
रक्षोमिरात मुनयः ततो वध्या दि राक्षसाः



कामं तपःप्रभावेन शक्ताः हन्तुं निशाचरान् ।
चिरार्जितं तु नेच्छामः तपः खण्डयितुं वयम् ॥ १४ ॥

बहुविघ्नं तपो नित्यं दुश्वरं चैव, राघव !
तेन शापं न मुञ्चामः भक्ष्यमाणाश्च राक्षसैः ॥ १५ ॥

 तेनेति । अतिप्रयासेन तपसस्साधितत्वेन हेतुना इत्यर्थः ॥ १५॥}}

[१].तदर्घमानान् रक्षोभिः दण्डकारण्य [२] वासिभिः ।
[३]रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने ।। १६ ।।

 त्वन्नाथा इति । त्वमेव नाथो येषां अस्माकं ते तथा ॥ १६॥}}

मया चैतद्वचः श्रुत्वा कात्स्येंन परिपालनम् ।
ऋषीणां दण्डकारण्ये संश्रुतं, जनकात्मजे ! ॥ १७ ॥

 कास्यैन परिपालनमिति सार्वभौमतः कृत्स्नदेशस्वामित्वाभि- प्रायेण । कार्येन- वनजनपदाविशेषेण परिपालनं संश्रुतम् । एवं च क्षत्रपदप्रतिष्ठानाभावः ममाद्याप्यसिद्धः |[४] न ह्यहं पित्रा राज्य- पदात् सर्वथा प्रच्यावितः, अपि तु चतुर्दशसमाः बनवासमात्रकाल एव । अतः अन्त्येवाद्यापि शरणागतरक्षणे अधिकारः इत्युक्तं वेदितव्यम् । एवमाशयेनैव वालिवघोऽपि ॥ १७ ॥

संश्रुत्य च न शक्नोमि [५]जीवमानः प्रतिश्रवम् ।
मुनीनां अन्यथा कर्तुं सत्यमिष्टं हि मे सदा ॥ १८ ॥

 जीवमान इति । जीवन्निति यावत् । न शक्नोमीत्यत्र हेतुः-- सत्यमिष्टमित्यादि ॥ १८ ॥



  1. तद्वन्यमानान्-ङ
  2. वासिन:-ङ
  3. .रक्षकरस्वं-ड
  4. अयं भावः – यद्यपि मह्यं मुनिवत् वृत्तिरादिष्टा, न तु सन्यासाश्रमस्वीकारः, गतो मम राज्यस्थापन राज्यभोगो वा सर्वथा नाथ मिलषितम् अपि तु नामार्ति- परिहारार्थमेव धनुर्गृह्णामि । अत: श्वश्रूश्वशुरयोरादेशस्य न कोऽपि विरोध:—इति ॥
  5. जीवमानः मुनीनां प्रतिश्रवं- मुनिसम्बन्धिप्रतिशां अन्यथा कर्तुं न शक्नोमि ॥