पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
70
[अरण्यकाण्ड
रक्षोवचस मर्थनम्



प्रसीदन्तु भवन्तो मे [१] हीरेपा हि ममांतुला ।
यदीदृशैः अहं विप्रैः उपस्थेयैः उपस्थितः ॥ ९ ॥

किं करोमीति च मया व्याहृतं [२]द्विजसंनिधौ ।

 [३]हीः-कीर्तिः । एषेति, किमित्यतः – यदीदृशैरित्यादि । उपस्थेयैरिति । अम्माभिरिति शेषः । उपस्थित इति । रक्षणार्थमिति शेषः । किं करोमीति, लोडर्ये लड्व्यत्ययात् । युष्मभ्यं किं करवाणीति मया व्याहृतम् ॥ ९॥

सर्वैरतैः समागम्य वागिय समुदाहृता ।। १० ।।
सर्वैरित्यादि । एवं मया व्याहतैः एतैः सर्वैरित्यर्थः ॥ १० ॥

राक्षसैः दण्डकारण्ये बहुभिः कामरूपिभिः ।
अर्दिताः स्म दृढं, राम ! भवान् नः [४]तत्र रक्षतु ।। ११ ।।

 स्म - स्मः इति यावत् । तंत्र - रक्षःपीडाविषये इत्यर्थः । रक्षत्विति भवच्छब्द प्रयोगात् ॥ ११ ॥

होमकालेषु संप्राप्ताः पर्वकालेषु, चानघ !
धर्षयन्ति सुदुर्धर्पाः राक्षसाः पिशिताशनाः ॥ १२ ॥

 पर्वकालेषु दर्शपूर्णमास कालेषु घर्षयन्ति-अभिभवन्ति ॥}}

राक्षसैः धर्षितानां च तापसानां तपस्विनाम् ।
गतिं मृगयमाणानां भवान् नः परमा गतिः ।। १३ ।।

 गति – त्रातारम् ॥ १३ ॥}}



  1. श्रीरेषा-ङ.
  2. मुनि-ङ.
  3. ही:- लब्जा वा। स्वयं क्षत्रियेण विचार्यले भवद्भिवक्तव्यमापतितं खलु इति विलक्षतेत्यर्थः । अनन्तरार्ध अत्रैवानुकूलम् ॥
  4. त्रातुमईसि - ङ.