पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्चदशोऽध्याय | 'अहं वैश्वानरः' इत्यनेन च । नभस्तु बोधावकाशरूपतया सर्वगतमेव ।। १२-१४ ।। अत एव बोध्यरूपतामुक्त्वा तद्बोध्यस्वरूपपृष्ठपतित- स्वातन्त्र्यबोधस्वभावमात्मानं परस्वभावं परमेश्वररूपं 2 सर्व- ज्ञानस्वतन्त्रं सर्वकर्तारं दर्शयितुमाह- सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च । वेदश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदकृ (?) देव चाहम् ।। १५ ।। 231 सर्वस्येति । सर्वस्य वेद्यस्य यत् हृत् समस्ताहरणस्वत- •न्त्रबोधस्वभावं, तव अहमिति यो विमर्श:; तत एव अपूर्वा भासनामयं ज्ञानं विश्वमहासृष्टिरूपम्; 'अयं घट एव' इति सर्वात्मकभावखण्डनासारं विकल्पज्ञानात्मकमपोहन पाशव- सृष्टिरूपमायामयप्रमातुचितम्; स्मरणं च संस्कारशेषतां नी- तस्य संहृतस्य पुनरवभासनात्मकमिति । इयता समस्तज्ञानानि संहृतानि इति सर्वज्ञतापूर्वक स्वातन्त्र्यरूपं कर्तृत्वमुक्तम् । सर्वैरिति - संभूय किल सर्वशास्त्राणां परमेशतत्त्वमेव निरू- प्यम् । वेदवेदान्तकर्तृत्वेन कर्मफलतत्संबन्धादिद्वारतया अशेष- विशेषनिर्माणे, तदुन्मूलनेन पुन: स्वरूपप्रतिष्ठापने भगवत 1. S, B, N इति श्लोकेन च B, N परमेश्वर स्वरूपं 2. 3. B अपूर्वावभासना- 4. B,N विकल्पनाज्ञाना- 5. B-प्रतिष्ठा भगवत एव