पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

U श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता 'क्रोधादौ दृश्यमाने हि दीक्षितोऽपि न मुक्तिभाक् ।' इति ।। ९-११॥ 230 यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२ ॥ गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १३ ॥ अहं वैश्वानरो भूत्वा प्राणिनां देहमास्थितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुविधम् ॥ १४ । यदादित्येत्यादि चतुर्विधमित्यन्तम् । अर्कादितेजस्त्रय- रूपतया दशमाध्यायसूचितसृष्टि स्थितिसंहार [ कर्तृत्व ? ] प्रकटी- करणे श्रीगुरवः प्राहुः - भूतपञ्चकस्य समस्तव्यस्ततया यल्लोक- धारकत्वं तद्भगवत एव माहेश्वर्यमित्येतदनेन [उक्तमिति ]। तथाहि - रवितेजसः प्रकाशकत्वं धारकत्वं च तेजोधराद्वयता- दात्म्यात् । तदेतदुक्तम् 'यदादित्यगतम्' इति 'गामाविश्य च' इति चार्धद्वयेन । चान्द्रं तेजः प्रकाशकं पोषकं च, धराजलतेजो- योगात्' । तदुक्तम् 'यच्चन्द्रमसि' इत्यनेन भागेन पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मक: " इति चार्धश्लोकेन । वाह्नं तु तेजः प्रकाशनशोषणदहनस्वेदनपचनात्मकं पृथिव्य- प्तेजोवायुयोगात् । तदेतदिहोक्तम्' 'यच्चाग्नौ' इत्यनेन, 1. B,N श्रीगुरवस्त्वाहु: 2. B लोकद्वयाधारकत्वं च 3. K. omits धरा 4. B.N omit चौषधी:त्मक: 5. N तदेवेहोक्तम्