पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशोऽध्यायः 197 येत्वित्यादि अवाप्यते इत्यन्तम् । ये पुनरक्षरं ब्रह्म उपासते आत्मानं [तैरपि] सर्वत्रगम् इत्यादिभिविशेषणै: आत्मनः सर्वे ईश्वरधर्मा आरोप्यन्ते । अतो ब्रह्मोपासका अपि मामेव यद्यपि यान्ति; तथापि अधिकतरस्तेषां क्लेशः । आत्मनि किल अपहतपाप्मत्वादिगुणाष्टकारोपं विधाय पश्चात्तमेव उपासते इति स्वतः सिद्धगुणग्रामगरिमणि ईश्वरे अपत्नसाध्ये स्थितेऽपि द्विगुणमायासं विन्दन्ति ।। ३-५ ।। ये त सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥ तेषामहं समुद्धर्त्ता मृत्युसंसारसागरात् । भवामि न चिरात् पार्थ मय्यावेशितचेतसाम् ॥ ७ ॥ मय्येव मन आधत्स्व मयि बुद्धि निवेशय । निवत्स्यसि त्वं मय्येव योगमुत्तममास्थितः ॥ ८ ॥ येत्वित्यादि आस्थित इत्यन्तम् । प्रागुक्तोपदेशेन तु ये सर्वं मयि संन्यस्यन्ति, तेषामहं समुद्धर्त्ता सकलविघ्नादिक्ले- शेभ्यः । चेतस आवेशनं व्याख्यातम् । तथा च एष एवोत्तमो योगः, अकृत्रिमत्त्वात् । तथा च मम स्तोत्रे- विशिष्टकरणासनस्थितिसमाधिसंभावना- विभाविततया यदा कमपि बोधमुल्लासयेत् । न सा तव सदोदिता स्वरसवाहिनी या चिति- र्यतस्त्रितयसन्निधौ स्फुटमिहापि संवेद्यते ।। 1. S ये त्वक्षरम् 2. B ईश्वरेऽपि 3. S प्रागुपदेशेन