पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बल्ठोऽध्यायः 111 पार्थेति । न तस्य योगभ्रष्टस्य इह लोके परलोके वा वाशोऽस्ति, अनष्टश्रद्धत्वात् इति भावः । स हि कल्याणं भगवन्मार्गलक्षणम् कृतवान् | न च तत् अग्निष्टोमादिवत् क्षयि ॥ ४२ ॥ प्राप्य पुण्यकृतां लोकानुषित्वा शाश्त्रतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ४३ ।। प्राप्येति । शाश्वतस्य विष्णोः, समाः, वैष्णवानि वीणि बर्षाणि । शुचीनामिति, येषां भगवदंशस्पशि चित्तम् ॥ ४३ ॥ अथ वा योगिनामेव जायते धीमतां कुले। एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४४ ।। अथ वे ति । यदि तु तारतम्येन अस्य अपवर्गेण भवि तव्यं तदा योगिकुले एव जायते । अत एवाह 'एतद्धि दुर्लभ- तरम्' इति । श्रीमतां गेहे किलावश्यमेव विघ्नाः सन्ति ॥४४॥ तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । ततो भूयोऽपि यतते संसिद्धौ कुरुनन्दन ॥ ४५ ॥ पूर्वाभ्यासेन तेनैव हियते ह्यत्रशोऽपि सन् । जिज्ञासुरपि योगस्य शब्दब्रह्मा तिवर्तते ॥ ४६ ॥ प्रयत्नाद्यतमानस्तु योगी संशुद्ध किल्विषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४७ ॥ 1. 2. S परत्र K adds तस्य लोकद्वयाविनाशिन: after भाव: