पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

110 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अर्जुन उवाच - अयतः श्रद्धयोपेतः योगाचलितमानसः । लिप्समानः सतां मार्ग प्रमूढो ब्रह्मणः पथि ॥ ३८ ॥ अनेकचित्तो विभ्रान्तो मोहस्यैव वशं गतः । अप्राप्य योगसंसिद्धि की गति कृष्ण गच्छति ॥ ३९ ॥ कच्चिन्नोभयविभ्रष्ट शिछ । भ्रमिव नइपति । अप्रतिष्ठो महाबाहो विनाशं वाधिगच्छति ॥ ४० ॥ एतन्मे संशयं कृष्ण च्छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य च्छेत्ता न हथुपद्यते ॥ ४१ ॥ अयतः इत्यादि नह्युपपद्यते इत्यन्तम् । प्राप्ताद्योगात् यदि चलितेऽपि चित्ते श्रद्धा न हीयते । विनष्टश्रद्धो हि सिद्धयोगोऽपि सर्वं निष्फलं कुरुते । उक्तं हि- यदा प्राप्यापि विज्ञानं दूषितं चित्तविभ्रमात् । तदैव ध्वंसते शीघ्र तूलराशिरिवानलात् || योगस्य सम्यक् सिद्धौ अजातायां किं लोकान्निष्क्रान्तः सम्यक् च ब्रह्मणि न निचीन इति नश्येत् ? अथवा ब्रह्मणि अप्र- तिष्ठितत्वात् विनश्यति परलोकबाधाय ? इति प्रश्नः ।।३८-४१।। अन निर्णयम् श्रीभगवानुवाच - पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत् कश्चिदुर्गति तात गच्छति ॥ ४२ ॥ 1. B, N यस्य instead यदि 2. B तदैवम् 3. K न लीन इति 4. S निर्णयः