पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

70 श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता न मां कर्माणि लिम्पन्ति न मे कामः फलेष्वपि । इति मां योऽभिजनाति कर्मभिर्न स बध्यते ॥ १४ ।। चातुर्वर्ण्य मिति । न मामिति । मम किल कथमाकाशकल्पस्य कर्मभिः लेपः ? आकाशप्रतिमत्वं कामनाभावात् । इति !, ज्ञान- प्रकारेण यो भगवन्तमेवाश्रयते सर्वत्र सर्वदा आनन्दघनं परमेश्वरमेव 'न वासुदेवात्परमस्ति किंचित्' इति रीत्या विमृशति, तस्य किं कर्मभिः बन्धः? ॥ १३-१४ ॥ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥ एवमिति । तस्मादनया बुद्धया पवित्रीकृत त्वमपि कर्माण्यवश्यं कर्तव्यानि कुरु ॥ १५ ॥ अथ उच्यतेऽकरणादेव सिद्धिरिति, तन्न । यतः - कि कर्म किमकर्मेति कवयोऽध्यत्व मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ २६ ॥ कमणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥ किं कर्म इति । कर्मणो ह्यपि इति । कर्माकर्मणोविभागः दुष्परिज्ञानः । तथा च विहिते कर्मण्यपि3 मध्ये दुष्टं कर्मास्ति अग्निष्टोमे इव पशुवधः । विरुद्धेऽपि च कर्मणि शुभमस्ति कर्म । 1. S इत्यनेन 2. B, N,K नीत्या 3. S, B, N तथा च (B,N omit च) कर्मण्यपि (B-गोपि)