पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः बीतेति । तथा चैवं विदन्तो मन्मयत्वात् परिपूर्णच्छत्वात् क्रोधादिरहिताः निष्फलं कर्म करणीयं कुर्वाणा: बहवो मत्स्व- रूपमवाप्ताः ॥ १० ॥ यतः - ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥ कांक्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥ ये यथेति । कांक्षन्त इति । ये यथैव बुद्धया मामाश्रयन्ते तान् प्रति तदेव स्वरूपमहं गृह्णन् ताननुगृह्णामि । एवमेव मदीयं मार्ग सन्मया अमन्मयाश्च सर्व एवानुवर्तन्ते । न हि ज्योति- ष्टोमादिरन्यो मार्गः, मदीयैव सा तथेच्छा । वक्ष्यते हि चातु- वण्यं मया सृष्टमिति । 69 - अन्यस्तु आह - लिङर्थे लट्; यथा 'अतिरात्रे षोडशिन गृह्णन्ति' इत्यत2 'गृह्णीयु' इत्यर्थः, एवमिहापि अनुवर्तन्ते अनुवर्तेरन् इति । मानुषे एव लोके भोगापवर्गलक्षणा सिद्धिः नान्यत्रेति ॥ ११-१२ ॥ चातुर्वर्ण्य मया सृष्टं गुणकर्म विभागतः । तस्य कर्तारमपि मां विद्वयकर्तारमव्ययम् ॥ १३ ॥ 1. S, B, K ययैव 2. S omits इत्यन 3. N omits अनुवर्तन्ते