पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः 49 अन्ये तु अन्नं तावद्वीर्यलोहितक्रमेण भूतकारणम्; अन्नं च वृष्टिद्वारेण पर्जन्यात् सोऽपि 'अग्नौ प्रास्ताहुतिः सम्यक् 1 इति आदित्यमेति । ततो वृष्टिर्यज्ञात्; यज्ञः क्रियातः; सा च ज्ञान- पूर्विका; ज्ञानमक्षरात् इति । । अपरे तु अन्नं अद्यमानं विषयपञ्चकम् [तत् ] आश्रित्य भूतानि इन्द्रियाणि; विषयाश्चात्मनः स्फुरितरूपाः । अत आत्मैव विषयोपभोगेन पोष्यते । अतश्च सर्वगतं ब्रह्म कर्मणि प्रतिष्ठितं तन्मयत्वात् तस्य [इति] ॥ १४-१५॥ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥ एवमिति । यस्तु एवं नाङ्गीकरोति स पापमयः । यतः स इन्द्रियेष्वेव रमते, नात्मनि ॥ १६ ॥ यश्चात्मरतिरेव स्यात् आत्मतृप्तथ मानवः । आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ॥ १७ ॥ नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन | न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥ 1. S,B omit सम्यक् K omits the entire quotation. 2. S अतः सर्वगम् 3. N अतः गीता-4