पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

48 श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ।। १५ ।। कथंचित् अन्नादिति । कर्मेति । अन्नात् अविभागभोग्यस्वभावात् मायाविद्याकालाद्यनेकापरपर्यायात् भूतानि विचि वाणि भवन्ति । तच्च अन्नं पर्जन्यात् अविच्छिन्न संवित्स्वभावात् आत्मन:; भोक्तृतन्त्रात्मलाभत्वात् भोग्यतायाः । स च पर्जन्यो भोक्ता यज्ञात् [भोगक्रियात्मनः] ; भोगक्रियायत्तत्वात् भो- क्तृत्वस्य | भोगक्रिया च कर्मणः क्रियाशक्तिस्वातन्त्र्य बलात् । तच्च स्वातन्त्र्यम् अविच्छिन्नमपि अनवच्छिन्नानन्तस्वातन्त्र्य- पूर्णसमुच्चलन्महेश्वरभावपरमात्म ब्रह्मणः संस्पर्थवशात् । तच्च उच्चलदच्छानाच्छादितैश्वर्यं ब्रह्म अक्षरात् प्रशान्ता शेषैश्वर्य- तरङ्गात् संविन्मावात् । इत्येवं सुव्यवस्थितो' यज्ञः षडरं चक्रं वाह्यन्, तत्व' अरावयसंधानादपवर्गम् अरावयतन्त्रणात् व्य वहारमासूवयति इति विद्याविद्योल्लासतरंगसुभगं ब्रह्म यज्ञे एव प्रतिष्ठितम् । 1. S,B, N विद्याप्रकृतिकाला- 2. S अवच्छिन्नमपि अवच्छिन्नस्थापि अनवच्छिन्नानन्त- 3. S, K -ब्रह्मसंस्पर्श- 4. B omits तच्च 5. B,N - इच्छादितैश्वर्यम् 6. S - स्थितोऽयम् भोगक्रियायाम् 7. K omits तन; S, B, N substitute तत्तु 8. B-तरङ्गं ब्रह्म