पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

44 तथा हि- POESCOR श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपैता न कर्मणामनारंभाभैष्कर्म्य पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥ न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥ न कर्मणामिति । न हीति । ज्ञानं कर्मणा रहितं न भवति; कर्म च कौशलोपेतं ज्ञानरहितं न भवति; इत्येकमेव वस्तु ज्ञानकर्मणी । तथाचोक्तम् 'न क्रियारहितं ज्ञानं न ज्ञानरहिता क्रिया | ज्ञानक्रियाविनिष्पन्न आचार्य: पशुपाशहा || इति तस्मात् जानान्तर्वति कर्म अपरिहार्यम् । यतः परवश एव, कायवाङ्मनसी परिस्पन्दात्मकत्वात् अवश्यं किञ्चित्करोति ॥ ५-५॥ कर्मेन्द्रियाणि संयभ्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मूढाचारः स उच्यते ॥ ६ ॥ कर्मेन्द्रियाणीति । कर्मेन्द्रियैश्चेन्न करोति, अवश्यं तर्हि मनसा करोति ; प्रत्युत [स] मूढाचार.2, मानसानां कर्मणामत्य- न्तमपरिहार्यत्वात् ॥ ६॥ यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥ 1. S omits afg 2. The expressions मूढाचार: and मिथ्याचार: are found hereinafter interchanged in the MSS.