पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । श्रुत्वा किंचित्स्वेदमापेदिवान्स मत्वा मत्वा धैर्यमापेदिवान्सः । श्रावं श्रावं मातुलीयस्य तत्रं दाहं गेहस्यानुकम्पां व्यधत्त ॥ ३९ ॥ विश्वस्य मां निहितवानसि पुस्तभारं तं चादहद्रुतवहः पतितः प्रमादात् ।। यावांस्तु पुस्तकविनाशकृतो मम स्यात् ।। १४० ॥ इत्थं बुवन्तं तमथो न्यगादी त्पुस्तं गतं बुद्धिरवस्थिता मे । उक्त्वा समारब्ध पुनश्च टीकां कर्तु स धीरो यतिवृन्दवन्द्यः ॥ ४१ ॥ दृष्टा बुद्धं मातुलस्तस्य भूयो भीतः प्रास्यद्रोजने तन्मनोन्नम् ।। किंचिद्रव्यं पूर्ववन्नाक्षमिष्ट टीकां कर्त केचिदेवं ब्रवन्ति ॥ ४२ ॥ अत्रान्तरेऽन्यैर्निजवचरद्भि स्वैस्तीर्थयात्रां दयितै: सतीथ्यैः ॥ अर्थादुपेत्याऽऽश्रमतः कनिष्ठ ज्ञतः सखेदैः स मुनिः समैक्षि ॥ ४३ ॥ मत्वा मत्वा पदार्थस्वरूपं ज्ञात्वा ज्ञात्वा गहस्य तात्र वैर्यमामुवन्मातुलमंबान्धनो दाहं श्रुत्वा श्रुत्वा करुणां विहितवान् । तं मातुल आहेति शेषः । एवंभूतः पद्मपादो विश्धस्येत्येवमादिप्रकारेण बुवन्तं मातुलमिति वा संबन्धः । इन्द्रवज्रा वृत्तम् ॥ ३९ ॥ निहितवानसि स्थापितवानसि । वर्तमानसामप्ये रु ट् । तं च प्रमादात्पतित। हुताशोऽदहत् । वसन्ततिलका वृत्तम् ॥ १४० ।। न्यगादीदुक्तवान् कृतवान् । इन्द्रवत्रा वृत्तम् ॥ ४१ ॥ । टीकां कर्तुमारम्भं मास्यत्माक्षिपत् । नाक्षमिष्ट समर्थो नाभूत् । शालिनं वृत्तम् ॥ ४२ ॥ अत्रान्तरे स्ववत्तीर्थयात्रां चरद्भिर्दयितै: स्वीयैः सतीथ्यैराश्रमात्कनिष्ठर्यदृच्छयो पत्य ज्ञातः सखेदैः स मुनिः समैक्षि संदृष्टः । इन्द्रवज्रा वृत्तम् ॥ ४३ ॥ १ ५१९ . 'नू । इ'।