पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । ऐतिह्यमाश्रित्य वदन्ति चैवं तदेव मूलं मम भाषणेऽपि ॥ यावत्कृतं तावदिहास्य कर्तुः पापं ततः स्याद्विगुणं प्रवतुः ॥ १६ ॥ गच्छन्नसौ फुछमुनेर्जगाम तमाश्रम यत्र च रामचन्द्रः ॥ अश्वत्थमले न्याधत स्वचाप स्वयं कुशानामुपरि न्यषीदत् ॥ १७ ।। तात्वा समुद्र जनकात्मजाया संदर्शनोपायमनीक्षमाणः ।। न वारिराशौ पुवनं क्षमन्ते ॥ १८ ॥ संचिन्तयन्निति कुशासनसंनिविष्टो ज्योतिस्तदैक्षत विदूरगमेव किंचित् । संव्यापुवज्जगदिदं मुखशीतलं य त्संप्रार्थनीयमनिशं मुनिदेवताभिः ॥ १९ ॥ आगच्छदात्माभिमुस्वं निरीक्ष्य सर्वं तदुत्तस्थुरुदारवीर्याः । न्महाप्रभामण्डलमध्यवर्ति ॥ १२० ॥ [ सर्गः १४ ] न तु गुप्तमेव मया प्रकाशितं यतो यावत्कृतं तावदेवेह कर्तुः पापं स्यात्प्रवक्फुस्तु ततः कर्तुः सकाशाद्विगुणं स्यात् । अपकाशितपकाशकं कथनं द्विगुणपापावहमिति बोधनाय प्रशब्दः ॥ १६॥ [ननु त्वयेदं कथं ज्ञातं तत्राऽऽह । ऐतिह्यमिति ] ॥ १६ ॥ गच्छन्नसौ पद्मपाद: फुलमुनेस्तं प्रसिद्धमाश्रमं जगाम । यत्र च रामचन्द्रोऽश्वत्थ मूले चापं न्यावित स्वयं कुशानामुपरि न्यषीददुपविष्टवान् । अाख्यानकी वृत्तम्॥१७॥ समुद्रं तीत्व जानकया यद्द३शन तत्रोपायमनीक्षमाणः लवगा वानरा भूमै पवणाः लवनशीला वारिराशौ वनं न क्षमन्त इति संचिन्तयन्कुशासनसंनिविष्ट: श्रीरामच न्द्रस्तदा विदूरगमेव किंचिज्ज्योतिरैक्षत । तद्विशिनष्टि । संव्याप्नुवदिांत । उपजाति वसन्ततिलके वृत्ते ॥ १८ ॥ १९ ॥ एतज्ज्योतिः । उपजातिवृत्तम् ॥ १२० ॥ १ ख. ग. घ. 'तः प्रभावका'।