पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । इत्युक्त्वा तैर्मातुलं मस्करीशः शिष्यैर्हष्यन्सेतुमेष प्रतस्थे । कष्टं चैष्यत्सूचनायै निमित्तम् ।। १२ ।। वामं नेत्रं गन्तुरस्पन्दतैव बाहुः पुस्फोरापि वामस्तथोरुः ॥ चुक्षावोचैर्हन्त कश्चित्पुरस्ता तत्सर्वं द्राग्ज्ञोऽगणित्वा जगाम ॥ १३ ॥ गतेऽत्र मेने किल मातुलोऽस्य ग्रन्थे स्थितेऽस्मिन्गुरुपक्षहानिः ॥ दग्धेऽत्र जायेत महान्प्रचारो नोक्तया निराकर्तुमपि प्रभुत्वम् ॥ १४ ॥ पक्षस्य नाशाद्रहनाश एव नो वरं गृहेणैव दहामि पुस्तकम् ।। एवं निरुप्य न्यदधाद्रुताशनं चुक्रोश चाग्रिर्दहतांति मे गृहम् ॥ ११५ ॥ वर्तते । स्थापनस्य रक्षार्थत्वात्पम्यक्त्वया रक्षा कायत्याशयनाऽऽह । हे विद्व न्निति । तवेदं विदितमिति संबोधनाशयः । शालिनी वृत्तम् ॥ ११ ॥ भविष्यत्सूचनाय कष्टं निमित्तं जातम् ॥ १२ ॥ किं तदित्यपेक्षायामाह । अस्य गन्तुर्वामं नेत्रमस्पन्दत । तथैवै वामो बाहुरपि कृत पुस्फोर । तथा च वाम ऊरुरपि । हन्त खेदे । कश्चित्पुरस्तादुवैश्रुक्षाव क्षुतं वान् । तत्सर्वं सोऽगणयित्वा झटिति जगाम ।। १३ ।। अस्मिन्पद्मपादे गते सति । अत्रास्मिन्ग्रन्थे दग्धे सति गुरुपक्षस्य महान्प्रचारः । ननु वाचैतन्मतं निराकर्तव्यमित्याशङ्कयाऽऽह । उक्त्या निराकर्तु तु प्रभुत्वं नास्ति । इदमसंगतमित्युक्त्याऽपीति वा । उपजातिवृत्तम् ॥१४॥ [ गुरुः प्रभाकरः ] ॥१४॥ तस्मात्स्वगृहेण सहैव पुस्तकं दहामि यतः स्वपक्षनाशाद्वहनाश एव नोऽस्माकं वरमिति स्वमनसि विचार्य गृहे वाहं स्थापितवान्मे गृहमन्निर्दहतीति चुक्रोश ॥१५॥ १ क. ख. ग. 'तैष बा'। २ ख. स्वपक्षना'। ३ क. "थैव वा'। ५१३ )