पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४८ श्रीमच्छंकरदिग्विजयः । सरोरुहे त्वामनुसंदधानः । चतुर्विधैक्यानुभवास्तमोहः सायुज्यमम्बाश्चति साधकेन्द्रः ॥ ३६ ॥ श्रीचक्रशट्चक्रकयोः पुरोऽथ श्रीचक्रमन्वोरपि चिन्तितैक्यम् ।। चक्रस्य मन्त्रस्य ततस्तवैक्यं क्रमादनुध्यायति साधकेन्द्रः ॥ ३७ ॥ ध्रुवमण्डलाख्ये सहस्रपत्रे कमले त्वामनुपंदधानश्चतुर्विवैक्यानुभवेन निरस्तो मोहो यस्य सोऽत एव साधकेन्द्रो हेऽम्ब सायुज्यं प्राप्तोति ॥ ३६ ॥ [ अत्र साधकेन्द्र इत्येकवचनं साधकश्रेष्ठत्वकथनं च तावत्पर्यन्तं वायुसंरोधपूर्वकमन:संरोधस्यातिर्दूल भत्वध्वननार्थमेव ] ॥ ३६ ॥ अनुभवम्य च तुर्विध्यं विवृणोति । पुर आदै । बिन्दुत्रिकोणवसुकोणदशारयुग्ममन्वस्रनागदैलसंयुतषोडशारम् । वृत्तत्रयं च धरणीसदनत्रयं च श्रीचक्रमेतदुदितं परदेवतायाः । चतुर्भिः शिवचत्रैश्च शक्तिचत्रैश्च पञ्चभिः । नवचक्रेश्च संसिद्धं श्रीचक्र शिवयोर्वपुः ।। त्रिकोणमष्टकोणं च दशाकोणद्वयं तथा । चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च च ।। बिन्दुश्चाष्टदलं पद्मं तथा षोडशपत्रकम् । चतुरस्त्रं चतुरं शिवचक्राण्यनुक्रमात् ।। त्रिकोणे बैन्दवं श्लिष्टमष्टारेऽष्टदलाम्बुजम् । दशारयोः षोडशारं भूगृहं भुवनास्रके ।। २वानामां५ शाक्तानां चक्राणां च परस्परम् । अविनाभावसंबन्प यो जानाति स चक्रवित् । त्रिकोणरूपिणीशक्तिर्विन्दुरूपः सदाशिवः । अविनाभावसंबन्धं तस्माद्विन्दुत्रिकोणयोः ।। एवं विभागमज्ञात्वा श्रीचक्र य: समर्चयत् । न तत्फलमवाप्रेोति ललिता वा न तुष्यति' ।। इत्यादिवचनैरुक्तस्य श्रीचक्रस्योक्तचक्रषट्कस्य च चिन्तितं योगिभिः स्मृतमैक्यं १ ख. "युयमाप्रो'। [ सर्गः १२] २ क. ग. ध. 'दशसं ।