पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १२ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ ये प्रत्यभिज्ञामतपारविज्ञा धन्यास्तु ते माग्विदितां गुरुक्तया । सैवाहमस्मीति समाधियोगा त्वां प्रत्यभिज्ञाविषयं विदध्युः ॥ ३३ ॥ आधास्चक्रे च तदुत्तरस्मि स्राराधयन्त्यैहिकभोगलुब्धाः ।। उपासते ये मणिपूरके त्वां वासस्तु तेषां नगराद्रहिस्ते ॥ ३४ ॥ अनाहते देवि भजन्ति ये त्वा मन्तः स्थितिस्त्वन्नगरे तु तेषाम् ॥ श्रुद्धाज्ञयोर्ये तु भजन्ति तेषां क्रमेण सामीप्यसमानभोगौ ॥ ३५ ॥ ४४७ तथाच ये सविशेषां त्वामेवं ध्यायन्ति त एवंभूता भवन्ति ये तु निर्विशेषां त्वाम भेदेन जानन्ति ते तु धन्या एवेत्याह । ये तु गुरुक्याऽऽदौ विदितां समाधियोगा त्सैवाहमस्मीति त्वां प्रत्यभिज्ञाविषयं विदध्युस्ते सचिदानन्दलक्षणं ब्रह्माहमस्मीति प्रत्यभिज्ञामतस्याद्वैतमतस्य पारं जानन्तीति ते तथाभूता धन्या इत्यर्थः । इन्द्रवत्रा वृत्तम् ।। ३३ । [ अथैतदपेक्षयाऽप्युत्तमाधिकारिणामहंग्रहोपासनमाह । ये प्रत्य भिज्ञामतेति । तत्तदंतोलेखिज्ञानं प्रत्यभिज्ञासैवाहमित्याकारकं सगुणं वा निर्गुणं वा सत्तमहं ब्रह्मास्मीत्यादिवदहंग्रहोपासनाख्यमनुसंधानं तस्य यन्मतं निर्गुणाहंग्रहोपास नादेव साक्षात्कारद्वारा मोक्ष इति सिद्धान्तस्तस्य यः पारः परमोऽवधिस्तं जानन्तीति तथा ] ॥ ३३ ॥ इदानीं तत्तचक्रे ध्यानस्य फलं वदन्स्तौति । ऐहिकभोगलुब्धा हेमनिभे चतुदैले मूलाधारसंज्ञे चक्रे तथा तस्मादावारचक्रादुत्तरस्मिन्षड्दले विदुमाभे स्वाधिष्ठानसंज्ञ आराधयन्ते ये तु दशदले धूम्रवर्णे मणिपूरकाख्ये त्वामुपासते तेषां तु वासस्तव नग राद्वहिरेव भवति । उपजातिवृत्तम् ॥ ३४ ॥ हे देव्यनाहतसंज्ञे द्वादशदले पिङ्गलवणें चक्रे ये त्वां भजन्ति तेषां तु त्वन्नग रेऽन्तः स्थितिः । शुद्धे षोडशदले धूम्रवर्णे विशुद्धसंज्ञे चक्रे तु ये भजन्ति तेषां सामीप्यम् । सहस्रदले करवणे आज्ञाचक्रे ये' तु भजन्ति तेषां त्वत्समैनो भोगो भवति ॥ ३५ ॥ १ क. ये भ'। २ घ. 'मानभो ।