पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १२ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । वन्द्य महासोमकलाविलासं गामादरेणाऽऽकलयन्नादिम् ॥ मैनं महः किंचन दिव्यमड़ी कुर्वन्विभुर्मे कुशलानि कुर्यात् ॥ ९ ॥ ता एवोदाहरति । वन्धं संप्तष्यदिभिर्वन्दनीयम् । महतः सोमस्य पलयाब्वनी रस्य कलाभिरंशैः कलायां मूले वा विलासः क्रीडा यस्य । सोमः कुबेरे पितृदेवतायां वसुपभेदे च सुवाकरे च । दिव्यौषधीश्यामलतासमीरकरनीरेषु च वानरे च इति विश्धप्रकाशाः । ‘कला स्यान्मूलरैवृद्धौ शिल्पादावंशमात्रके' इति मेदिनी। सोमकस्य वेदापहारकस्यासुरस्य लावी नाशको लासः क्रीडा यस्येति वा । तथाभूतमनादिं सर्वकारणत्वादकारणं मैंनं मात्स्यं दिव्यमप्राकृतं किचनाचिन्त्यं तेजोऽङ्गीकुर्वन्गां नौकारूपां भूमिमादरेणाऽऽकलयन्विकर्षन्विभुरनन्तशक्तिव्यापको विष्णुर्मे कुशलानि कुर्यात् । तथाचेोक्तम् । रुपं स जगृहे मात्स्यं चाक्षुषोदधिसंग्वे । नाव्यारोप्य महामय्यामपाद्वैवस्वतं मनुम्’ इति “अहं त्वामृषिभिः साकं महीनावमुदन्वति । विकर्षन्विचरिष्यामि यावङ्काही निशा प्रभो। ५५ ४३७ इति च । अनादिभृतां गां वेदवाचमादरादाकलयन्प्रत्याहरन्निति वा तथाचोक्तम् । अतीते प्रलयापाय उत्थिताय स वेधसे । इति । पक्षे सोमस्य चन्द्रस्य कलाया विलासो यस्मिस्तया सह विलासो यस्येति वा । सोमानां हिमालयेोद्भवानां दिव्यौपीनां कलाभिरिति वा । पोमस्य कर्परस्येति वा । अनादिभूतां गां श्रुतिमादरेणाऽऽकलयन्विचारयन् । गां वृषभमादरेण प्रेरयन्निति वा । मेनाया हिमाचलभार्याया जातं किंचन पार्वतीलक्षणं महोऽङ्गकुवन्निति व्याख्ये यम् । इन्द्रवत्रा वृत्तम् ॥ ९ ॥