पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६ श्रीमच्छंकरदिग्विजयः । महीधकन्यागलसङ्गतोऽपि माङ्गल्यतन्तुः किल हालहालम् ।। यत्कण्ठदेशेऽकृत कुण्ठशक्ति मैक्यानुभावादयमस्मि भूमा।॥ १ ॥ गुणत्रयातीतविभाव्यमित्थं गोकर्णनाथं वचसाऽर्चयित्वा । तिस्रः स रात्रीत्रिजगत्पवित्रे क्षेत्रे मुदैष क्षिपति स्म कालम् ॥ ६ ॥ वैकुण्ठकैलासविवर्तभूतं हरन्नताघं हरिशंकराख्यम् । दिव्यस्थलं देशिकसार्वभौम स्तीर्थप्रवासी नचिरादयासीत् ॥ ७ ॥ १त्रमापनोदाय भिदावदाना मद्वैतमुद्रामिह दर्शयन्तौ । आराध्य देवौ हरिशंकरौ स द्वद्यर्थाभिरित्यर्चयति स्म वाग्भिः ॥ ८ ॥ किंच धराधरस्य हिमाचलस्य कन्याया गलेन संलम्रोऽपि माङ्गल्यतन्तुः सौभा ग्यसूत्रं यस्य कण्ठदेशे हालाहलं कुण्ठशक्तिमकृत । सोऽयं भूर्मक्यानुभावादहमेवास्मि ॥ ५ ॥ [ हालहालमिति प्रयोगस्तु च्छन्दोनुरोधादेव ] ॥ ५ ॥ गुणातीतैर्विभाव्यं विर्भावनीयं गोकर्णनाथामित्थं वचसाऽर्चयित्वा तिस्रो रात्रीविज गत्पवित्रे क्षेत्रे स एष मुदा कालं क्षिपति स्म । ६ ।। [ सर्गः १२] ततश्च वैकुण्ठकैलासयोर्विवर्तभूतं स्वातिरिक्ताकारेण वर्तत इति विवर्तस्तदूपं तयो रूपान्तरं नताघं हरत् । हरिशंकराख्यं दिव्यं स्थलं तीर्थप्रवासी देशिकसार्वभौमः शीघ्रमेवागात् ॥ ७ ॥ भेदवादिनां भ्रमापनोदायास्मलोकेऽद्वैतमुद्रां दर्शयन्तौ हरिशंकरौ देवावाराध्य स श्रीशंकर इति वक्ष्यमाणपकारेण द्यर्थाभिर्वाग्भिरर्चयति स्म ॥ ८ ॥

  • ख. 'भावनी'। २ घ. भैरवादीनां ।