पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलित अविद्याराक्षस्या गिलितमखिलेशं परगुरो पिचण्डं भित्त्वाऽस्याः सरभसममुष्मादुदहरः ॥ वृतां पश्यन्रक्षोयुवतिभिरमुष्य प्रियतमां हनूमाउँोकेड्यस्तव तु कियती स्यान्महितता ॥ २८ ॥ जगदार्तिहन्ननवगम्य पुरा महिमानमीदृशमचिन्त्यमहम् ॥ प्यस्विलं क्षमस्व करुणाज्जलधे ॥ २९ ॥ अपि मोहमीयुरमितप्रतिभा: ॥ श्रुतिभावनिर्णयविधावितरः प्रभवेत्कथं परशिवांशमृते ॥ ३० ॥ समेतैरेतैः किं कपिलकणभुग्गौतमवच स्तमस्तोमैश्वेतोर्मालिनिमसमारम्भणचणैः । प्ररोहद्याहारामृतकिरणपुत्रे विजयिनि ॥ ३१ ॥ ३५१ मुखे प्रथमं यस्यैतादृशो रः ‘रः पावके च तीक्ष्णे च' इति विश्वादमिः कर्तृत्वभोकृत्वा दिवडवानलो यस्मिन्स तथेत्यर्थः ] ॥ २७ ॥ किंचाविद्यालक्षणया राक्षस्या गिलितमखिलेश हे परगुरोऽस्याः पिचण्डमुदरं भित्त्वा सरभसं यथा स्यात्तथाऽमुष्मादुदरात्सकाशादुदहर आहृतवानसि तथाच रक्षसां युवतिभिर्तृतां न तु गिलितां तत्राप्यमुष्याखिलेशस्य रामचन्द्रस्य प्रियतमां सीतां न तु तं तत्रापि पश्यन्न तु रक्षोयुवतिनाशेनाऽऽहरद्धनूमोकेडय एवंभूतस्य तव तु मैहत्ता कियती स्यात्तस्याः परिमाणं नास्तीत्यर्थः ॥ २८ ॥ एवं स्तुत्या संमुखीकृत्य क्षमापयति । हे जगदार्तिहन्नदृिशमचिन्त्यं तव माहि मानं पूर्वमबुद्ध्वा यदहमन्याय्यं तवाग्रेऽबुवं तत्सर्वं क्षमस्व यतो हे करुणासमुद्र। प्रामि ताक्षरा वृत्तम् ॥ २९ ॥ एवं क्षमाप्य पुनः स्तौति । अपरिमितप्रतिभाः कपिलगौतमकणादमभृतयोऽपि श्रुतिभावनिर्णयविधं मोहं प्राप्तास्तत्र परशिवांशं त्वां विनाऽन्यः कथं प्रभवेत् ॥३०॥ तथाचेदानीं तेषां वचस्तमःपुञ्जा आकिंचित्करा एवेत्याह । समेतैरिति । सुधाधा

  • क. ग. 'म् । यदहं पुराऽब्र'। २ ग. महितता । ३ क. ग . 'न्त्यं म'। ४ क. ग.'थ्यं पुराऽबु'