पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ श्रीमच्छंकरदिग्विजयः । न चोदनीया वयमत्र विद्व न्यतस्त्वया पंडुङ्गयरहस्यमंव । अत्तीति सत्त्वं त्वभिपश्यति ज्ञ इति स्म सम्यग्विवृणोति मन्नम् ॥ १८ ॥ शारीरवाची ननु सत्त्वशब्दः क्षेत्रज्ञशाब्दः परमात्मवाची ॥ तत्राप्यतो नान्यपरत्वमस्य वाक्यस्य पैङ्गयोदितवत्र्मनाऽपि ॥ १९ ॥ तदेतदित्यादिगिरा हि चित्ते प्रदर्शिता सत्त्वपदस्य वृत्तिः ॥ क्षेत्रज्ञशब्दस्य च वृत्तिरुक्ता शारीरके द्रष्टरि तत्र विद्वन् ॥ १२० ।। [ सर्गेः ८ ] अस्य मश्रस्य पैङ्गन्यरहस्य ब्राह्मणेनैवमेव व्याख्यातत्वान्मैवमिति परिहरति भगवान्। अत्रास्मिन्नर्थे त्वया वयं न शङ्कनीया यतः 'स्तयोरन्यः पिप्पलं स्वाद्वति' इति सत्त्व मनश्रअन्नन्यो अभिचाकशीत्यनश्रन्नन्योऽभिपश्यति ज्ञस्तावेतौ सत्त्वक्षेत्रज्ञाविति पैङ्गस्य रहस्यमेवेमं मम्र विवृणोतीत्यर्थः । विद्वांस्त्वमेतज्ज्ञातुं योग्योऽसीति संबोधनाशयः ॥१८॥ उक्तब्राह्मणस्यापि शारीरक्षेत्रज्ञप्रतिपादकत्वाद्वा सुपर्णेतिवाक्यस्य नान्यपरत्वमिति मण्डनः शङ्कते । ननु तत्र पैङ्गयरहस्यब्राह्मणेऽपि सत्त्वशब्दः शारीरवाची क्षेत्रज्ञ शब्दः परमात्मवाच्यतः कारणात्पैङ्गयरहस्योक्तमार्गेणाप्यस्यं वाक्यस्य बुद्धयात्मप रत्वं नास्तीत्यर्थः ॥ १९ ॥ [ अस्य द्वा सुपर्णेत्यादेः । किंतु जीवेश्वरपरत्वमेवेति भावः ] ॥ १९ ॥ सत्वक्षेत्रज्ञशाब्दयोरन्त:करणशारीरपरतया प्रसिद्धत्वात्तत्रैव व्याख्यातत्वाच्च मैव मित्युत्तरमाह भगवान् । तत्र पैङ्गयरहस्ये ‘तदेतत्सत्त्वं येन स्वग्रं पश्यत्यथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौ' इति गिरा सत्त्वपदस्य वृत्तिश्चित्ते पद् र्शिता । क्षेत्रज्ञशब्दस्य च शारीरके द्रष्टरि वृत्तिरुक्ता । हिरिति प्रसिद्धार्थको निपातः ॥ १२० ॥ [ वृत्तिः शक्तिः ] ॥ २० ॥