पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । श्रुतिः स्मृतेऽर्थे यदि वेदविद्वि भवेन्न तन्मूलतया प्रमाणम् ॥ कथं भवेद्वेदकथानभिज्ञे ज्ञतेऽपि भेदे परजीवयोः सा ॥ ११५ ॥ जिवेश्वरौ सा वदतीत्युपेत्य प्रावोचमेतत्परमार्थतस्तु । विविच्य सत्त्वात्पुरुषं समस्त संसारराहित्यममुष्य वक्ति ॥ १६ ॥ यदीयमाख्यात्यथ सत्त्वजीवौ विहाय सर्वज्ञशरीरभाजौ ॥ जडस्य भोकृत्वमुदाहरन्ती प्रामाण्यमर्हन्कथमश्रुवीत ॥ १७ ॥ ३३६५ परिहरति भगवान् । यदि वेदविद्भिः स्मृतेऽर्थे श्रुतिस्तन्मूलतया प्रमाणं न भवेकि त्वनविगतगन्तृत्वेनैव वेदविद्भिः स्मर्यमाणार्थस्य तत एव ज्ञातत्वात्तर्हि वेदकथान भितैरपि परजीवयोभेदे ज्ञाते सा श्रुतिस्तन्मूलतया प्रमाणं कथं भवेन्न केनापि प्रकारे णेत्यर्थः । तथाच वेदकथानभिशैर्निरपेक्षतया प्रथमप्रवृतैः प्रत्यक्षादिभिज्ञते भेदे श्रुतेः। प्रमेयत्वाभावान्न तस्यास्तत्र तात्पर्यमिति भावः ॥ ११५ ॥ [ वेदकथा वेदार्थीभूतं कर्म ब्रह्मा च तद्नाभिशैः पामरैर्नरौरित्यर्थः । ज्ञातेऽपि नाहमीश्वर इत्यनुभवेन प्रत्यक्षीकृतः तेऽपीति यावत् । सा श्रुतिः “द्वा सुपण' इत्यादिरूपा ] ॥ १५ ॥ किंच सा श्रुतिर्जीवेश्वरौ वदतीत्यङ्गीकृत्यैतत्पावोचम् । परमार्थतस्तु कर्मफलभोक्तु सत्वादुद्धेः पुरुषं विविच्य सा श्रुतिरमुष्य पुरुषस्य समस्तसुखदुःखभोक्कृत्वलक्षणस्य संसारस्य राहित्यं वक्ति ॥ १६ ॥ [ सा ‘द्वा सुपर्णा' इत्यादिपूर्वोक्तश्रुतिः ] ॥१६॥ उक्तश्रुत्यर्थमसहमानो मण्डन भाह । यदीयं श्रुतिः परजीवौ विहायाथ सत्वजीवौ। वक्ति तर्हि प्रत्यक्षविरुद्धं जडस्य सत्त्वस्य भोक्तत्वमुदाहरन्ती हे अर्हन्मामाण्यं कथम श्रुवीत केन प्रकारेण प्रापुयात्पत्यक्षविरुद्धार्थप्रतिपादकत्वेन ‘यजमानः पस्तरः' इत्या दिश्रुतिवत्स्वार्थे प्रामाण्यानुपपत्तेः ॥१७॥ [ यदीयं ‘द्वा सुपर्णा' इत्यादिश्रुतिः। सत्त्व जीवावन्तःकरणकूटस्थौ ] ॥ १७ ॥