पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ [ सर्गः ६] हन्तुं बौद्धोऽन्वधावत्तदनु कथमपि स्वात्मलाभः कणादा जातः कौमारिलायैर्निजपदगमने दर्शितं मार्गमात्रम् ॥ सांख्यैर्तुःखं विनीतं परमथ रचिता प्राणधृत्यर्हताऽन्यै रित्थं स्वित्रं पुमांसं व्यधित करुणया शंकरार्यः परेशम् ॥८७॥ ग्रस्तं भूतैर्न देवं कतिचन ददृशुः के च दृष्टाऽप्यधीराः केचिदूतैर्वियुतं व्यधुरथ कृतिनः केऽपि संवैर्विमुक्तम् ॥ किंत्वेतेषामसत्त्वं न विदधुरजहनैव भीतिं ततोऽसौ तेषामुच्छिद्य सत्तामभयमकृत तं शंकरः शंकरांशः ॥ ८८ ॥ चोरितेति । अत एव । अर्थेति । वास्तविकं तद्धनमपहृत्य कूटधनं प्रकटयद्भिरि त्यर्थः । श्लेषपरिकरादिरलंकारः । रसादिकं तूक्तमेव ] || ८६ ॥ बौद्धः शून्यवादी हन्तुमन्वधावत्ततः पश्चाद्यथाकथंचित्कणादात्स्वात्मलाभो जात कैौमारिलापरसंशैर्भट्टपादैराथैर्निजपदगमने मार्गमात्रं प्रदर्शितं सांख्यैः परं केवलं दुःखं विनतिमपनीतमथान्यैः पातञ्जलैः प्राणधृत्या प्राणनिरोधेनार्हता तस्य पृज्यता रचि तत्थमत्यन्त खद प्राप्त पुरुषमात्मान करुणया ३शकरायः परशमछत ॥ ८७ ॥ [ बौद्धः पुमांसमात्मानं हन्तुमेव शून्यवादित्वेन विनाशयितुमेव ] [ कणादात्सकाशा त्स्वात्मलाभो जातः । तैर्हि बुद्धयादिभावनान्तनवविशेषगुणसंख्यादिविभागान्तपञ्चसा मान्यगुणविशिष्टविभ्वात्माङ्गीकारात्संपन्न इत्यर्थः ] [ कौमारिलायैः कुमारिला एव कौमारिलास्ते च त अभायश्चेति तथा कुमारिलभट्टाचार्या प्राक्षडाननावतारत्वेन वर्णिता एव तैरित्यर्थः ] [ मार्गमात्रं कर्मानुष्ठानेन चित्तशुद्विारा परमेश्वरप्राप्तिर्भ वतीति वत्र्मव दर्शितं कथितं न तु परपद्मपीत्यर्थः ] [ सांख्यैः कपिलैः ] [ प्रा णेति । प्राणस्य माणवायोधृतिः कुम्भकादिना धारणं तयाऽर्हता तस्य पूज्यता ] [ श्लेषादिरलंकारः ] ॥ ८७ ॥ भूतैः पृथिव्यादिभिग्रेस्तं देवमात्मानं कतिचन न ददृशुः केचिचार्वाका न दृष्टवन्तः केचिच योगाचारादयो दृष्ट्राऽप्यधीराः क्षणिकविज्ञानमात्मेति तैः स्वीकृतत्वात् । केचित्तार्किका मीमांसकाश्च भूतैर्वियुक्तं व्यधुः । अथ कृतिनः सांख्याः सर्वभूतैस्तद्व श्व विनिर्मुक्तं व्यधुः किंत्वेतेषामसत्वं न विदधुस्ततस्तस्मादसावात्मा भीर्ति भयं न त्यक्तवाञ्शंकरस्तु तेषां सत्तामुच्छिद्य तमात्मानमभयमकृत । यतः शंकरस्य ब्रह्मवि द्याधीशस्य महादेवस्यांशो ज्ञानकलावतारः ॥ ८८ ॥ [ ग्रस्तमिति । कतिचन शून्यवादिनो माध्यमिकाः । भूतैः पञ्चमहाभूतैः । पक्षे पिशाचैः । यस्तं तादात्म्या ध्यासेन वशीकृतम् । एतादृशं देवं स्वप्रकाशात्मानमपि । पक्षे राजानम् ] [ केचि न्मीमांसकास्तार्किकाश्च । भूतैः पृथ्व्यादिभिः । पक्षे पिशाचैः ] [ अथ केऽपि