पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ६] धन पतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । त्रैलोक्यं ससुखं क्रियाफलपयो भुङ्के ययाऽऽविष्कृतं यस्या वृद्धतरे महीसुरगृहे वासः प्रवृद्धाध्वरे ॥ तां पङ्कप्रसृते कुतर्ककुहरे घोरैः खरैः पातितां निष्पङ्कमकरोत्स भाष्यजलधेः प्रक्षाल्य सूक्तामृतैः ॥ ८५ ।। मिथ्या वक्तीति कैश्चित्परुषमुपनिषदूरमुत्सारिताऽभू दन्यैरस्मिन्नियोज्यं परिचरितुमसावर्हतीति प्रणुन्ना ॥ अर्थाभासं दधानैमृदुभिरिव परैर्वञ्चिता चोरितार्थ र्विन्दत्यानन्दमेषा मुचिरमशरणा शंकरार्य प्रपन्ना ॥ ८६ ॥ [ अत्रादुत एव शान्तानुप्राणिती रस । धीरोदात्तो नायकः । श्लेषः परिकरः काव्य लिङ्गं रुपकं परिकराडुरः सर्वमिलित्वा तिलतण्डुलवत्संसृष्टिश्चालंकारः ] ॥ ८४ ॥ यया श्रुतिलक्षणया गवा प्रकटितं क्रियाफललक्षणं पयो दुग्धं सपुखं त्रिलो कीस्थेो जनो भुङ्गे यस्याश्च गोवृद्धतरेऽतिप्राचीने प्रवृद्धा अध्वरा यागा यस्मिस्तथाभूते ययागसंज्ञके भूसुरस्य प्रजापतिसंज्ञस्य ब्राह्मणस्य गृहे वास एवंभूतां तां गां घेरैर्भम खरैस्तीक्ष्णैर्दूर्जनैः पङ्गेन प्रसृते व्यासे कुतर्कलक्षणे छिद्रे पातितां स भाष्यकारो भाष्यसमुद्रस्य सूक्तामृतैः प्रक्षाल्य निष्पङ्कामकरोत् । शार्दूलविक्रीडितं वृत्तम् ॥८५॥ [ क्रियेति । क्रियाफलरूपं कर्मफलाख्यं पयः क्षीरम् । ससुखं सुखसहितं यथा स्यात्तथा । दुःखोपभोगेऽपि तन्निरासाभिव्यक्तसुखसाहित्यसत्वाद्युक्तमेवेदं क्रियावि शेषणम् ] [ पड़ेति । पङ्केन “अस्त्री पङ्क पुमान्पाप्मा' इत्यमरात्पापेन पसृतं विस्तृतं तस्मिन् । पक्षे पङ्कः कर्दमस्तेन व्याप्त इत्यर्थः ] [ घोरैर्भयंकरैः खरैस्तीक्ष्णैरेतादृशैः सकलभेदवादिभिरित्यर्थ । पक्षे गर्दभैः] [रसालंकारादिकं तु पूर्वपद्योक्तमेव ] ॥ ८५ ।। कैश्चिद्वेदबायैरुपनिषन्मिथ्या वक्तीति दूरमुत्सारिताऽभूत् । अन्यैभट्टपाभाकरैर स्मिन्वेदे कर्मणि वा यो नियोज्यस्तं परिवरितुमसावुपनिषदर्हतीति प्रणुन्ना मक र्षेण पीडिता । अर्थो न भवति किंत्वर्थवदाभासत इत्यर्थाभासस्तस्य त्वमसि तस्मात्त्व मसि तस्मै त्वमसीत्येवमादिरूपस्तं दधानैश्चोरितो. लोपितस्तदभिन्नस्त्वमसीत्येवमादि रूपो वास्तवोऽर्थो वैदुिभिरिविितपरुषैरेव कोमलाभासैरपरैर्नेय्यायिकादिभिर्वञ्चिता सुचिरमशरणा सतीदानीं शंकरार्य प्रपत्रैषोपनिषदानन्दं विन्दति प्राम्रोति । स्रग्धरा वृत्तम् ॥ ८६ ॥ [ मिथ्येति । कैश्चिन्माध्यमिकादिवेदबाहँदैः परुषं यथा स्यात्तथा ] अस्मिलेकेि वेदे कर्मणि. वा । नियोज्यं नियोतुं योग्यं जीवं परिचरितुं स्तोतुम्][पपन्ना शरणागता सत्यानन्दमद्वैतात्मसुखं विन्दति प्राम्रोतीति योजना । पक्ष उप समीपे. निषीदति शरणापेक्षयोपविशतीति तथा काचिद्भीतभीरुरित्यर्थः । नियोज्यं दासम् । २४७ १ ग. 'रिव प'।