पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ श्रीमच्छकरदिग्विजयः । तद्रवान्विदितवेदशिस्वार्थ स्तानि दुर्मतिमतानि निरस्य ॥ सूत्रभाष्यमधुना विदधातु श्रुत्युपोद्वलितयुक्त्यभियुक्तम् ॥ ४८ ॥ एतदेव विबुधैरपि सेन्द्रे रर्चनीयमनवद्यमुदारम् ॥ तावकं कमलयोनिसभाया मप्यवाप्स्यति वरां वरिवस्याम् ॥ ४९ ॥ भास्कराभिनवगुप्तपुरोगा नीलकण्ठगुरुमण्डनमुख्यान् ॥ पण्डितानथ विजित्य जगत्यां ख्यापयाद्वयमते परतत्त्वम् ॥ ५० ॥ भाष्यकाणि कुत्सितभाष्याण्यरचयन्कृतवन्तः कैश्चिद्वहु बुद्धं ज्ञातं यैस्तैर्दूष्यतां चोप गतानि ॥ ४७ ॥ [ सर्गः ६] ततस्माद्विदितो वेदान्तानामर्थो येन तथाभूतो भवांस्तानि कुबुद्धीनां मतानि निरस्य सूत्रभाष्यं विदधातु । विधौ लोट् । भाष्यलक्षणं तु । ‘सूत्रार्थो वण्यैते यत्र वाक्यैः सूत्रानुकारिभिः । स्वपदानि च वण्र्यन्ते भाष्यं भाण्यविदो विदुः’ इति । सागरादिवर्णनस्य भाष्यत्वव्यावृत्तये सूत्रामित्युक्तं वार्तिकस्य तत्त्वनिरासाय सूत्रानुकारिभिरिति वृत्तेस्तत्वव्यावृत्त्यर्थमुक्तं स्वपदानीति । इतरभाष्येभ्य उत्कृष्टता बोधनाय विशिनष्टि । समग्रश्रुतिभिरुद्वलिताभिर्युक्तिभिरासमन्ताद्युक्तम् ॥ ४८ ॥ ननु मया क्रियमाणं भाष्यमपि केषांचिदनाद्रास्पदं स्याचेत्तर्हि किमर्थं कर्तव्य मिति चेत्तत्राऽऽह । एतदेव तावकं भाष्यमिन्द्रसहितैर्देवैरप्यर्चनीयं भविष्यत्यपिशा ब्दान्मनुष्यैरर्चनीयं भविष्यतीति किमु वक्तव्यं यतो निर्दोषमुदारं च न केवलं सेन्द्रे देवैरेवार्चनीयं भविष्यत्यपि तु चतुर्मुखसभायामपि श्रेष्ठां पूजां प्राप्स्यतीत्यर्थः ।॥४९॥ [काव्यार्थापतिरलंकारः ] ॥ ४९ ॥ किंच भास्करो भेदाभेदवाद्यभिनवगुप्तः शाक्तो नीलकण्ठो भेदवादी शैवो गुरुः प्रभाकरो मण्डनमिश्रो भाट्टमतानुयाय्येतदादीन्पण्डितानथ भाष्यकरणानन्तरं विजित्य