पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः:६ ] धनपतिसूरिकृतडिण्डिमाख्यटी कासंवलितः । २३३ इत्युदारवचनैर्भगवन्तं संस्तुवन्तमथ च प्रणमन्तम् ॥ बाष्पपूर्णनयनं मुनिवर्य शंकरं सबहुमानमुवाच ॥ ४४ ॥ अस्मदादिपदवीमभजस्त्वं शोधिता तव तपोधननिष्ठा ॥ बादरायण इव त्वमाप स्या: सद्धरण्य मदनुग्रहपात्रम् ॥ ४५ ॥ संविभज्य सकलश्रुतिजालं ब्रह्मसूत्रमकरोदनुशिष्ट: ॥ पत्र काणभुजसांख्यपुरोगा ण्युद्धतानि कुमतानि समूलम् ॥ ४६ ॥ तत्र मृढमतयः कलिदोपा द्भित्रवेदवचनोद्वलितानि । भाष्यकाण्यरचयन्बहुबुद्वै र्दूष्यतामुपगतानि च कैश्चित् ॥ ४७ ॥ एवं स्तुवन्तं श्रीशंकरं प्रति श्रीमहादेवो यदुक्तवांस्तद्दर्शयितुमाह । इतीति । स्वागता वृत्तम् ॥ ४४ ॥ [ बाष्पपदेनात्र सात्त्विकभावः सृचितः ] ॥ ४४ ॥ यदुवाच तदाह । अस्मदादीति । अभज: प्राप्तवानसि हे सतां मध्ये श्रेष्ठ व्यास इव त्वमपि मदनुग्रहपात्रं स्या इत्याशीर्वादः ॥ ४५॥ [यतस्तव निष्ठा प्रज्ञापराकाष्ठा । शोधिताऽन्विष्टा । मयोक्तलीलयेति शेष आर्थिकं वा । अतस्त्वम् । अस्मदादीति । अभजः प्राप्तवानसीत्यन्वयः ] ॥ ४५ ॥ सूत्रभाष्यरचने नियोक्तुमुपक्रमते । अनुशिष्टः सम्यक्शिक्षितोऽनु पश्चाच्छिष्टा यस्मादिति वा स सर्वशिष्टाग्रणीर्वेदव्यासो वेदकदम्बं सम्यग्विभज्य ब्रह्माखण्डैकरसं सूच्यते येन तत्तथा । ‘अथातो ब्रह्मजिज्ञासा’ ‘जन्माद्यस्य यत ’ ‘शास्त्रयोनित्वातू’ 'तत्तु समन्वयात्' इत्येवमादिरूपमकरोच्छिष्टोऽनु पश्चादकरोदिति वा । यत्र बह्मसूत्रे काणादसांख्यपातञ्जलमभृतीनि कुमतानि समूलमुन्मूलितानि तत्रेतिपरेणान्वयः ॥४६॥ [ संविभज्य किल कर्मादिपरत्वेन सम्यगुपक्रमादिषोढालिङ्गानुगृहीततात्पर्यनिर्णयपूर्वकं विभागं पूर्वोत्तरकाण्डयोः कृत्वैवेत्यर्थः ] ॥ ४६ ॥ तत्र ब्रह्मसूत्रे मूढमतयः कलिदोषाद्वाभ्यां त्रिभिर्वा वेदवचनैरुद्वलितान्युपकृतानि 1 क. 'ति म'। २ क. ख. घ. 'नि म।