पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
शिवार्चनाचन्द्रिकायाम्

फलरसादिविकरैर्नानाविधपेयचोष्यलेखैः क्षीरदधिनवनीतधृतै रेलाचंपक मुकुळ कर्रर मृगमद लामज्ञ पाटलीपुष्पादिवासितः सुशीतळ स्नपनकल- शाहृताढकत६ तदर्धप्रमाणेन पानीयेन परिपूरितैश्चषकैः परितः परिष्कृ ताः शिवस्य शिवायाश्च नैवेद्यास्थालिकाः सदाशिवस्य मनोन्मन्याश्च परि बारदेवताना मावरणदेवतानां च नैवेद्यस्थालिकाश्च निधाय स्थालिकाना- मुपरि पतं विन्यस्य हृदयेन प्रोक्ष्य ताळत्रय दिग्बन्धनाबकुण्ठन धेनुमुद्रा विरचय्य अनमुद्रां पर्वतमुद्रां प्रदर्य पूर्वत्रिन्यस्तं पत्रमुत्याव्रणपरिषिच्य हृदयेन प्रयेक मापोशनं दत्वासपुष्यया मृगमुद्रया पूर्वं गणपतये निवेद्य तपु यं विसृज्य हस्तप्रक्षाळनं कृत्वा ‘ हां हं शिवाय स्वधेति शिवाय नैवेद्य । पञ्चवारं त्रिवार मेकवारंवा नैवेद्यदानाभिनयवत्या सपुष्पया मृगमुद्रया नैवे चंदा सदाशिवादिक्रमेण सर्वेभ्योऽपि पृथक्पृथक् नैवेद्य दद्यात् । पृथक् पातसंभवे सर्वासां परिचारावरणदेवतना मेकस्मिन्नेव पात्रे नैवेद्यमानीय प्रत्येकं निवेदयेत् । ततशिवाय सुगन्धिपानीयं प्रदाय नमोन्तमूलेन पुष्पं समर्य द्रव्यजातं संपूर्ण विभाज्य स्त्रधान्तमूलेनाचमनं दत्वा देवस्य सत्यवामहस्तयो रुद्वर्तनार्थं कपॅरादिसहितं चन्दनं दत्वा हस्तप्रक्षाळन गण्डूष पादक्षाळनादि भावयेत् । सर्वाणि च निर्माच्यान्युलूख्य सदाशि घनिर्माल्यं प्रागीशदिशि त्रिन्यस्तगन्धपुष्पनिर्माद्याभ्यां सह ऐशान्यां दिशि चण्डेशाय निवेदयेत् । अथ सदाशिवः केन वक्त्रेण भुङ्के ऊर्जुवक्त्रेण । ‘भक्ष्यभोज्यानपा- नादि लेह् चोष्य मनेकधा । ऊर्जुवक्त्रे प्रदातव्यं यकिंचिदिह चो- दित’ मिति सर्वज्ञानोत्तरवचनात् । ‘भक्ष्यंभोज्यं च पेयं च लेख्यं चोष्यं च ( पञ्चधा । । ऊर्जुवक्त्रे प्रदातव्यं हृदयेन षडानने 'ति द्विशतीवचनाच्च । अथवा पञ्चभिरपि वक्त्रैर्युते । 'पञ्चवक्त्रेषु नैवेद्य मूर्द्धवक्त्रेऽथवा पुन'