पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
शिवार्चनाचन्द्रिकायाम्

दिस्थानस्थितक्रतृक्तत्वकारणेत्ररैस्सह क्रमेण पूर्वपूर्वत्यागेन झटिति मनसा विचिन्त्य तदुपरि परमाकाशसरित्समुद्भतकोटिसूर्यसमप्रभ कोटिशीतांशुशी- तळाष्टत्रिंशत्कलात्मक केसरोज्वल प्रणवकर्णिकपञ्चाक्षरबीजाब्य परमान न्दमधुभारित मुक्तभृङ्गनिषेवित चिच्छक्तिरूप सहस्रदळकमलमध्यगतं सद्य स्समुद्यदनेककोटि शारदशशाकसङ्काशप्रकाशं परमानन्दजलधि निष्कळेपर मशिवं मनसाऽवगाहेत । एवं भावनापुरस्सरं परमशिवं मूलेनानीय हृदयमन्ते णावाहनमुद्रया सदाशिवहृदयांबुजंप्रापप्यास्थापनमुद्रयातस्मिन्संस्थाप्य सन्नि धानमुद्रया स्वामिमुखीकृत्य स्वागतंते महादेवेति विज्ञाप्य वत्स सुस्वागतम तिदेवेनोक्तं मनसा विभाव्य स्वागतार्थं दत्वा सनिरोधनमुद्रया सन्निरु ध्ये “स्वामिन्सर्वजगनाथ यावत्पूजावसानकम् । तावत्वं प्रतिभाबेन लि जेऽस्मिन्सन्निधी भव’इति हृवंजलिबन्धपूर्वकं संप्रायं शिवस्यानुमतिं भा वायित्वा निरोधार्थं प्रदाय काळकण्ठ्या हुंफडन्तात्रेण विन्नानुत्सार्य शिवं कवचेनावकृष्य हृदयशिरशिखाकवचानि तत्तन्मन्त्रैर्देवस्य हृदयादि स्थानेषु विन्यस्य हृदयादिकराङ्गविन्यासरूपसकळीकरणानन्तरं पुष्पमा रोप्य मूलेन परमीकृत्य धेनुमुद्रयाऽमृतीकुर्यात् । अन्नावाहनं शिवस्य सदाशिवदेहप्रापणम् । स्थापनं सदाशिवस्य हृदंबुजे स्थापनम् । सन्निधापनं स्वाभिमुखीकरणम् । सन्निरोधनं याचस्पूजासमाप्ति सन्निधानप्रार्थनम् । । अवकुण्ठनं भक्तेषु प्रकाशार्थं विन्नना ममाप्यर्थे च कवचेनाच्छादनम् । सकळीकरणं हृदयादिपञ्चाङ्गन्यसनम्। परमीकरणं शुक्लपीतरक्तासितरक्तव र्णानां हृदयादीनां शिवैकत्ववर्णानुसंधानम् । अमृतीकरणं विग्रहस्य शिव स्यचाभेदेन प्रतिपात्तः । ननु विश्वव्यापकस्य शिवस्य कथमभिमतदेशप्र पणरूप मावाहन मुच्यते । अचिन्याङ्गतानन्तशक्तिकवशित्रस्यव्यापकत्व मव्यापकत्व मप्यस्तीति तच्छिवस्य देशान्तरप्रापणरूप मुपपद्यते । यद्वा