पृष्ठम्:शिवलीलार्णवः.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
नवमः सर्गः


प्रागेव पाण्ड्यतनयाचरणारविन्दसेवानुभावचिरनिर्ह्रत कल्मषासु ।
सेनासु तत्र जलमात्रकृतोपयोगा ह्रीणेव सा सरिदवापदवाङ्मुखत्वम् ॥ २९ ॥
आलक्ष्य ताममरसिन्धुमपारपूरां स्रोतोदशां स्वयमपि प्रतिपद्य सद्यः ।
अम्भोनिधिर्न्यविशतेव तटे तदीये सेनानिभेन मलयध्वजकन्यकायाः ॥ ३० ॥
सेनां पृथक् पृथगिमां विरलं निवेश्य मायापुरीपरिसरे सुमतिः समस्ताम् ।
आसाद्य पाण्ड्यतनयामिदमावभाषे गङ्गातरङ्गलतिकाहृतदृक्तरङ्गाम् ॥ ३१ ॥
पश्याम्ब ! कीर्त्तिमिव ते भुवनं पुनानामेनां दयाभिव तवास्खलितप्रवाहाम् ।
सूक्तिं तवेव च सुधामधुरां गभीरां भागीरथीं भवजटापटलात् प्रवृत्ताम् ॥ ३२ ॥
निश्रेणिकेयमपवर्गपदाधिरोहे नौकेयमम्ब ! दुरितार्णवसम्प्रतारे ।
एषा सुधा भवविषज्वलनाभिषड्गे ज्योत्स्नेयमान्तरतमोभिभवे जनानाम् ॥ ३३ ॥
ब्रह्मर्षिशापनिहतान् भसितावशेषानेषा दिवं सगरराजसुताननैषीत् ।
एषा च कर्मधरणीघटनानपेक्षा स्रोतस्त्रयेण भुवनत्रितयं पुनीते ॥ ३४ ॥
कर्माणि पश्यत हरेरिति घोषयन्ति यत् सेतुबन्धनमुखानि गिरः पुराण्यः ।
सोऽप्यर्णवो ननु • रसातलमाविशन्त्याः पार्श्वाम्बुलेशपरिवर्त्तनपूरितोऽस्याः ॥ ३५ ॥
नीहारभूधराशलावलयाभिघात निर्गच्छदच्छ जलशीकरनिर्विशेषैः ।
अम्बावधेहि कनकध्वजमात्रलक्ष्यैरेतां वृतां दिविषदामभितो विमानैः ॥ ३६ ॥
आस्तामदृष्टमदसीयमिहानुभाव्यं दृष्टं च किं वचन दृष्टमथ श्रुतं वा ।
या यादृशीयमथ यासि च यादृशी त्वं ते द्वे युवां परामह व्यतिसंविदा ॥ ३७ ॥
एतावती जननि ! भारतवर्षभूमिरेषैव ते कुलपरम्परयागता भूः ।
स्नानेन पावनजलामपि पावयित्वा भूयोऽप्यमूं प्रतिनिवर्त्तितुमौचिती वः ॥ ३८ ॥
इत्यालपन्तमियमाह तमेवमेतन्मन्दाकिनीं प्रति यथात्थ महामते ! त्वम् ।
लब्धास्थिरीकरणमात्रभवं यशस्तु सञ्चिन्त्यमानमयशः परिहार एव ॥ ३९ ॥
एनां विगाह्य तदशेषतमोपहन्त्रीमेतद्वलेन सुरसिद्धनिषेवितानि ।
वर्षाणि तावदितराण्यपि साधयेयं सेनामिहैव विनिवेश्य भवत्स गया ॥ ४० ॥
त्वत्पादसेवनकृतां त्रिदिवे करस्थे का नाम भूमिवलयाक्रमणेऽपि शङ्का ।
साह्याय किं तव चमूरनुयायिनीयं त्याज्या तु नेति समयोचितमाह सेनाम् ॥ ४१ ॥



१. आनुभाव्यम् अनुभावः । स्वार्थे घ्यञ् २. अतो भारतबहिर्देशसाधनेनैव यशोऽर्जनी-
यमिति. ३. स एनामितिच्छेदः.