स्त्रीप्रत्ययाधिकारः ३९
७७. आत्यन्तिकेषु कार्येषु नारी कार्या पुरः सरा।
७८. इयं शूद्रा, इयं शूद्री, इयं च महाशूद्री । को विशेषः ।
७९. पुरीं निर्यादवीं कृत्वा विचरिष्याम्यहं सुखी । (हरि० १।२८।३९) ।
८०. दिष्ट्या समानी खलु तवात्मजानां त्वय्यनुरक्तिः ।
८१. प्राकृतिग्रहणा जातिलिङ्गानां च न सर्वभाक् (पा० ४।१।६३ सूत्रे
श्लोकवार्तिकम्।
८२. कण्डतिर्वपनादपैति शिरसः ।
८३. देवदत्तस्य भार्या प्राज्ञा, तस्य भगिन्यपि प्राज्ञी ।
८४. तद्दर्शितपथीं कुर्वे वृत्ति शिशुविबोधिनीम् (का० श्रौ० सूत्रवृत्तौ
मङ्गलश्लोकः )।
७७. पुरोऽग्रतोऽग्रेषु सर्तेष्ट प्रत्यये टित्त्वान्ङीपि पुरःसरीत्येव शोभनं
वचः।
७८. शूद्रा चामहत्पूर्वा जातिरिति जातावर्थे ङीषोऽपवादष्टाब् भवति ।
शूद्रीति च शूद्रस्य स्त्रीति पुंयोगे ङीष् । महाशूद्रीत्यत्रापि जाति-
लक्षणो ङीष् । आभीरी तु महाशूद्री ।
७९. निर्गता यादवा यस्याः सा ताम् । अत्र बहुव्रीहौ ङीपोऽप्राप्तेऽजा-
द्यतष्टाब् इति टापि निर्यादवाम् इत्येव साधु ।
८०. छन्दस्येव समानीति भवति समानी प्रपा सह वोऽन्तभागः (ऋ० )
शास्त्रं च केवलमामकेत्यादिनाच्छन्दस्येव समानशब्दान्ङीपं विधत्ते ।
तेन टापि समानेति वक्तव्यम् ।
८१. आकृतिर्ग्रहणं यस्या इति बहुव्रीहिः । गृह्यतेऽनेनेति ग्रहणम् ।
करणे ल्युट् । सामान्ये नपुंसकम् ।
८२. कण्डूतिरित्यत्र क्तिन्दुर्लभः। कण्ड्वादिभ्यो यकि अप्रत्ययाद्
इत्यकारे कृत्प्रत्यये टापि 'कण्डूया' इति रूपम् । सम्पदादित्वात्
क्विपि तु कण्डूरित्यपि।
८३. 'प्राज्ञा' इति प्रज्ञाश्रद्धार्चाभ्यो णे तद्धिते स्त्रियां टापि साधु ।
प्रज्ञा बुद्धिरस्या अस्तीति प्राज्ञा । प्रज्ञः (प्रजानातीति) एव प्राज्ञः ।
स्वार्थेऽण् । टिड्ढारणञ् इति ङीपि प्राज्ञीति साधु । प्रज्ञा तु प्राज्ञी
प्राज्ञा तु धीमतीत्यमरः ।
८४. तेन दर्शित: तद्दर्शितः । तद्दर्शितः पन्था यस्याः सा, ताम् इति
विग्रहे तद्दर्शितपथाम् इति टापि भवितव्यम् । ऋक्पूरब्धूरित्यनेन
अ-समासान्तस्तद्धितः । नस्तद्धित इति टिलोपः ।