३८ शब्दापशब्दविवेके
६८. यस्त्रैवर्णिकः शुद्रीं तल्पमारोपयेत्, मन्ये स पतितः स्यात् ।
६६. इयं क्षीरपी क्षत्रिया। इयं सुरापी । अतो भिद्येते शीलेन ।
७०. अनुचरी प्रियतमा मदालसा ।
७१. गतगतः, नष्टनष्ट इत्याबाधमाचष्टे। आबाधो बाधेत्यनर्थान्त-
७२. कुवलयदलनीला कोकिला बालचूते ।
७३. अहो विनयोऽस्याश्छात्रायाः । को न्वस्या गुरुः स्यात् ।
७४. समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः (भा० पु. ११।१९।५) ।
७५. एकाक्षरी काश्मीरकाणां श्री-पत्रिकाप्यस्तङ् गता।
७६. एता मे सिद्धयः सौम्य अष्टावौत्पत्तिका मताः (भा० पु० ११।१५।५)
६८. शूद्रा चामहत्पूर्वा जातिरिति टापि शूद्रेत्येव साधु । पुंयोग एव
शूद्रीति भवति ।
६९. क्षीरपेत्येव साधु । टकोऽप्राप्तेः । आतोऽनुपसर्गे इति कः, तत-
ष्टाप् । सुरापीति तु सुष्टु । 'सुरासीध्वोः' इति वक्तव्याद् गापो-
ष्टक् इति टक् । ततो ङीप् ।
७०. पचादिषु चरट् इति निर्देशाट्टिल्लक्षणे ङीपि अनुचरीति साधु ।
एवं सहचरीत्यस्यापि साधुत्वं द्रष्टव्यम् ।
७१. बाधेति भिदादेराकृतिगणत्वादङि टापि सिद्धम् ।
७२. कोकिलेत्यजादिगणे पाठाट्टापि सिद्धम् । जातिलक्षणस्य ङीषो
बाधः।
७३. छत्रशीलश्छात्र इति णप्रत्ययान्तः । क्वचिरणेऽण्कृतं भवतीति
ङीपि छात्रीति स्त्रियां स्यात् । प्रयोगस्तु नास्ति । यथालक्षरणम-
प्रयुक्ते इति वार्तिकस्याप्रयुक्ते लक्षणं न प्रवर्त्यमित्यर्थात् । यथा
ऽलक्षणमिति च्छेदात् ।
७४. सुखमया इत्यसाधु । मयटष्टित्त्वान्ङीपि सुखमय्य इति स्यात् ।
७५. एकमक्षरं वाचकत्वेन घटकं यस्या इति बहुव्रीहौ टापा भवित-
व्यम्, तेनैकाक्षरेत्येव साधु ।
७६. औत्पत्तिक्य इत्येव युज्यते वक्तुम् । औत्पत्तिक्यः सहजाः, निसर्ग-
सिद्धाः। उत्पत्तेरागता इत्यर्थे ठकि ङीपि ।