अस्ति भूरिति सद्धर्मः । तत्त्वशून्या असत्येति मायाधर्मः। सरूपकौ । तेजोरूपसहितौ शब्दस्पर्शादाकाशवायुगुणौ रसो जलगुणश्च अस्यां पृथिव्यां सन्ति । एते गुणाः परतः कारणतो भवन्ति । नैजो गन्धो गुणः भूमेः । तेभ्यः सत्तामात्रं विविच्यताम् ॥ ९४ ॥
एवं विवेचने फलमाह, पृथगिति ।
पृथक्कृतायां सत्तायां भूमिर्मिथ्याऽवशिष्यते । |
स्पष्टोऽर्थः ।
ब्रह्माण्डादिमिथ्यात्वविचारः ।
एवमन्यस्यापि जगतो मिथ्यात्वं दर्शयति सार्थद्वयेन भूमेरिति ।
भूमेर्दशांशतो न्यूनं ब्रह्माण्डं भूमिमध्यगम् ॥ ९५॥ |
स्पष्टोऽर्थः । अत्र भूमिशब्देन पञ्चमहाभूतेष्वन्यतमा पृथिवी ग्राह्या। नत्विदं भूमण्डलं यस्मिन् वयं वसामः । इदं तु चतुर्दशभुवनान्तर्गतमिति विशेषः ॥ ९५
यथायथं अधममध्यमोत्तमभेदेन प्राणिदेहाः प्राणिनां शरीराणि ॥ ९६ ॥
ब्रह्मण्डलोकदेहेषु ब्रह्मण्डान्तर्गतचतुर्दशलोकेषु यथायथं वसत्सु प्राणिदेहेषु सर्वेषु सद्वस्तुनि पृथक्कृते सत्यण्डादयोऽसन्तो निस्तत्वा मरुमरीचिकेव भान्तुनाम:। तद्भानेऽपि तेषामसत्यतया का क्षतिः न कापीति भाव: ॥ ९७ ॥