अपां मिथ्यात्वविचारः ।
अथापां तत्त्वं दर्शयति, सत इति ।
सतो विवेचिते वह्नौ मिथ्यात्वे सति वासिते। |
स्पष्टोऽर्थः ॥ ९१ ॥
अप्स्वपि कारणधर्मान्निजधर्ममपि दर्शयति,सन्तीति।
सन्त्यापोऽमूः शून्यतत्त्वा: सशब्दम्स्पर्शसंयुताः। |
अन्यधर्मानुवृत्त्या सदाकाशादीनामन्येषां सत्ता निस्तत्वादिधर्माणामनुवृत्या अमूरापः सन्तीति सद्धर्मः। शुन्यतत्त्वा निस्तत्त्वा इति मायाधर्मः । सशब्दस्पर्शसंयुताः शब्देनाकाशादनुवृत्तेन सह सामानाधिकरण्येन वर्तत इति सशब्दः ।स चासौ स्पर्शश्च तथाभूतः वायोरनुगतेन संयुता युक्ताः। एतेनाकाशवायुधर्मावुक्तौ । रूपवत्यः रूपं तेजोगुण आसामस्तीति रूपवत्यः । स्वीयो गुणो रसो । जिह्वाविषयो भवति ॥ ९२ ॥
पृथिवीविवेचनारीतिमाह, सत इति ।
सतो विवेचितास्वप्सु तन्मिथ्यात्वेन वासिते । |
स्पष्टोऽर्थः । कल्पिता अप्स्विति छेदः ॥ ९३ ॥
पृथिव्या मिथ्यात्वविचारः ।
भूमेः कारणधर्मान्निजधर्म चाह, अस्तीति ।
अस्ति भूस्तत्त्वशून्याऽस्यां शब्दस्पर्शौं सरूपकौ। |