बुद्धतत्त्वेनावगतब्रह्मात्मैक्यभावेन धीदोषशून्येन कामक्रोधादिधीदोषशून्येन निर्मलमनस्केन एकान्तवासिना एक एव अन्तः सीमा यस्य तस्मिन् वसतीति तथाभूतः तेन विजनप्रदेशनिवासशीलेन दीर्घ कालं प्रणवं प्रकर्षेण नूयते परं ब्रह्मानेनेति प्रणवः ओंकारः तमुच्चार्य जप्त्वा मनोराज्यं विजीयते ॥ ६२ ॥
एवं मनोराज्यविजयफलमाह, जित इति ।
जिते तस्मिन् वृत्तिशून्यं मनस्तिष्ठति मूकवत् । |
मूकवद् वृत्तिशून्यं सर्वव्यापारविरहितं मनः तिष्ठति । तदानीं विषयाभावात् तदाकाराकारिता वृत्तयो नोत्पद्यन्ते । वसिष्ठः मुनीनां वरिष्ठ, स्पष्टमन्यत् ॥ ६३ ॥
तदुपदेशप्रकारमाह, दृश्यमिति ।
दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् । |
दृश्यं परिदृश्यमानमिदं जगन्नास्ति सत्यस्वेन न विद्यते मिथ्येति बोधेन ज्ञानेन, यथा गृहात् सर्वस्योच्छिष्टस्य सम्मार्जन्याऽपाकरणं तथैव मनसो दृश्य मार्जनं दृश्यस्यापाकरणं संपन्नं चेत्, तत् तदा परा उत्कृष्टा निर्वाणनिर्वृतिः निर्वाणं मोक्षः स एव निर्वृतिरानन्द उत्पन्ना निष्पन्ना भवति । “ नेह नानास्ति किचनेति ” (कठ. २. ४. ११.) श्रुत्या जगतो निष्कासनेऽवशिष्ट: परब्रह्मानन्द एवानुभूयत इति भावः ॥ ६४ ॥
निरतिशयानन्दस्योत्तमपदत्वेन मानसिकमौनं प्रस्तौति , विचारितमिति।
विचारितमलं शाखं चिरमुग्राहितं मिथः। |
विचारितं अलमिति च्छेदः। सर्वमाध्यात्मिकं शास्त्रं अलं साकल्येन विचारितम् । विचारितार्थं गुरुशिष्ययोर्मिथः चिरं कालं संवादद्धरोद्ग्राहितं ।