मनोराज्ये यथेष्टं मनसि विषयध्यानेन क्षतिः हानिः अशेषदोपबीजत्वात् सर्वेषां कामादिदोषाणामुत्पत्ते:कारणम् । स्पष्टमन्यत् ॥ ५९ ॥
मनोराज्यपरित्यागप्रशंसा ।
उक्तप्रकारं भगवद्वाक्यप्रदर्शनेन विशदयति, ध्यायत इति ।
ध्यायतो विषयान् पुंसः संगस्तेषूपजायते । |
(गी-२-६२.) विषयान् स्रगादीन् ध्यायतो मनसि भावयतः पुंसः तेषु संग आसक्तिरुपजायते। संगात् कामस्तृष्णा संजायते । विफलीकृतात् कामात् क्रोधः कोपोऽभिजायते संपद्यते । दिक्प्रदर्शनमात्रमेतत् । तत्रोक्ता प्रणाळी सर्वाप्यत्रानु संधेया ॥ ६० ॥
कामादिपरित्यागः काम्यादिदोषदृष्टथादिहेतुद्वारा सुशकः। मनोराज्य परिहारस्तु दुःशक एवेत्याशंक्य तस्यापि हेतुप्रदर्शनेन सुशकत्वं प्रतिपादयति शक्यमिति ।
शक्यं जेतुं मनोराज्यं निर्विकल्पसमाधितः। |
निर्विकल्पसमाधितो निर्विकल्पे विषयिणि परे ब्रह्मणि चित्तैकाग्रथम् । तदाकारा चित्तवृत्तिः। ततो दोषबोजकारणं मनोराज्यं जेतुं शक्यं । तस्य । दुःशकत्वमाशंक्य तदुपायप्रदर्शनेन सुशकत्वं प्रदर्शयति, सुसंपादेति । सोऽपि निर्विकल्पसमाधिः सविकल्पसमाधिना सगुणध्यानेनाभ्यासक्रमात् सुसंपादः सुसाधः ॥ ६१ ॥
ननु योगयुक्तस्य भवदुक्तप्रणाळ्युपयुज्यते । योगविरहितस्य का गतिरि त्याशंक्य तस्यापि मनोराज्यत्यागदिशमुपदिशति, बुद्धेति ।
बुद्धतत्त्वेन धीदोषशून्येनैकान्तवासिना । । |