पृष्ठम्:वेदान्तकल्पतरुः.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
त्र्प्रथ प्रथमाध्यायस्य तृतीयः पादः ।
द्युभ्वाद्यायतनं स्वशब्दात् ॥१॥

निर्विशेषब्रह्मलिङ्गनिरूपणं पादार्थमाह इहेति । आद्याधिकरणाम वत्तारयति तत्रेति । आयतनत्वसाधारणधर्मात् संदेहे पूर्वपदं संगृह्णाति पारवत्वेनेति । अमृतं यटु ब्रह्म तद् दुध्वाद्यायतनं कर्हि चित्कदा चि दपि न युक्तम् । आयतनस्य ब्रह्मत्वाभावे हेतुमा पारवत्वेनेति । सेतु त्वस्य यारवत्वेन व्यापेब्रह्मणश्चापारत्वादित्यर्थः । अमृतत्वाभावे हेतुमाह भेदइति । भेदे हि सति संबन्धार्या षष्ठी प्रयुज्यते ब्रह्म चामृतमिति नामृतस्येति षष्ठी युक्तेत्यर्थः । पारं परकूलम् । अवारमर्वाङ्कलम् । ननु विजा बन्धनार्थात्सेतुशब्टव्यत्यत्तेर्जगन्मर्यादाया बन्धरिं ब्रह्मणि प्रयेोगः किं न स्यादत् आह न त्विति । यच दारुणि छिद्रिते निग्राह्याणां पाद प्रेत्तनं तद्धडि: । निगड : शृङ्खला । नन्वमृत्तमयिं ब्रह्मामृतान्तरसंबन्थि नेत्याह न च ब्रह्मण इति । अतो ऽन्यदार्त्तमिति श्रुतेरित्यर्थः । पुरुषं प्रति यावत्तादात्म्यं तावदगच्छद्वस्तुत: परिच्छिन्नं भवति पारवत् ।

अथ त्विति । साक्षादायतनत्वेन श्रुत्युक्तमिति येजना । अव्याकृतं १९४ । ३ हि कारणब्रहोपार्थित्वेन प्रतिपाद्यते न प्राधान्येनेति । तस्य ि कार्य त्वेनेति । देहाद्यवच्छिन्नरुपेणेत्यर्थः । धारणाधेति । अस्य युभ्वाद्याय तनस्यास्य वा तज्ज्ञानस्य यथाक्रमममृतत्वस्य धारणात्साधनाद्वा सेतुत्ता यदद्यपि ब्रहवामृतं तथापि तदज्ञातं न मेोक्त इति ज्ञायमानत्वदशा मभि प्रेत्य धारयितृत्वम् । अत एव षष्ठी । नन्वेवं रूढिर्गतेत्याशङ्क साम्यमाह पूवपचेत् ऽपीति । पारवत्तावर्ज पारथतां वर्जयित्वा । येागमात्रा दिति । षिञ्धात्वर्थयेगादित्यर्थः ।

विधारकत्वमेव सेतुगुणा ऽपि स्यात्तथा च पारवत्तया गैौणी वृत्ती रूढप्रत्यागेन प्रवृत्ता येोगाट् बलिनीति च न शङ्कमिति । अमृत्वस्य ब्रह्मयणे। हेत्वभावात्साधनत्वं ज्ञानस्यायुक्तमित्याशङ्काविद्यानिवृत्तिरमृत्वशब्दार्थ