पृष्ठम्:वेदान्तकल्पतरुः.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४३
अदृश्यत्वाद्यांधकरणम् ।

अधिदद्याशत्या विषयीकृत्पत्वेन तदाश्रय इति तथेत्क्तम् । द्वितीयश्लेाक्रस्य द्वितीयाद्धं व्याचष्ट अथेति । सति चेत्तनपरत्वे वाक्यस्य ब्रह्मपरत्वं दुर्नि बारमिति पूर्वपताभावमाशङ्काह ब्रहैमवति । यदुक्तम् अतरात्परस्य सर्वज्ञत्वमदतरं तु प्रथानमिति तत्रेत्याह अत्रस्येति । यट्भूत्तयेनिमि- १८४ । २० त्यदरस्य जगद्योनिभावमुवा य: सर्वज्ञ इत्युपक्रम्य तस्मान्नामरूपादि जायत्तइति जगदद्योनिभाव उच्यते । उपादानप्रायपाठा च पञ्चम्या न निमित्ता र्थत्वं तच उपादानत्वप्रत्यभिज्ञालिङ्गनैकवाक्यत्वे सति वाक्यप्रमाणात सर्वज्ञ एव भूत्यानिरित्यर्थः । विश्वयेनिथैदतरं तत्सर्वविदवेदिति विधीयते । यद्यच्तरशब्दवाच्यभूतयेने: सर्वज्ञत्वं कथं तर्हि सर्वज्ञस्याच्वरात्परत्वमुक्त तचाह अत्राादिति । यद् यस्मादथे । न चातरशब्दप्रत्यभिज्ञानाद् भूत येनिरेवातरादिति निद्वेिष्टति वाच्यम् । प्रथमश्रुते य: सर्वज्ञ इति वाक्ये सर्व ज्ञस्य जगदुपादानत्वप्रत्यभिज्ञया ऽस्य बाध्यत्वाद्यनाच्तरं पुरुषं वेद सत्य मिति पुरुषस्यातरशब्देन निद्वेदयभाणत्वाच । वितस्त्विति श्लेनाक्रस्य द्विती यार्ट व्याचष्ट अपि चेति । प्रयेजनमाह ज्ञेयत्वेनेति । भागव्यतिरिक्त इति भाष्यस्य व्याख्या भागा इति । ननु ऋतुषु यजन्तौति कर्तरि ििप संप्रसारणे कटत्विक्शब्दः । यज्ञसंयोगे गम्यमाने पतिशब्दप्रातिपदिकस्य नकारादेश: स इकारस्यान्त्यस्य तते। डोपि कृते पर्वी । उक्ताभिप्रा यामिति । विवर्त्तत्वेन सारूप्याऽनपेक्षेत्युक्ता ऽभिप्राय: । प्रधानादित्य- १८६ । १६ पीति । यद्यपि भाष्ये शारीरप्रधाननिराकरणतया हेतुट्टयं क्रमेण व्याख्यातं तथापि पुरुषशब्दस्य प्रधानव्यावतेकत्वादाद्यहेतुरपि प्रधानवारणार्थ इति । अक्तरमव्याकृतमित्यादिभाष्यस्यायमर्थ: । शब्दार्थयेबीजमधिष्ठानं तस्य शक्ति सहकारित्वात् । सा चेश्वरमाश्रयते विपर्यीकरोतीति ईश्वराश्रया त्स्याथि ठानत्वे उपाधिभूत्ता ऽवच्छेदिका शुतेरिव तद्विषयमज्ञानम् । अविकार इति छेट: । तस्माद्वाचस्पतिमतं भाष्यविस्टुमिति कैश्चिदयुक्तमुक्तम् । किञ्च ।

शतट्राष्यार्थतत्त्वज्ञा वाचस्पत्तिरगाधर्धी: ॥