पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ विशिष्टाद्वैत सिद्धिः [ ८६ प्राज्ञाः प्रदर्शयन्ति । तेष्वपि तं दोषं दर्शयिष्यामिति मतिं कृत्वा शास्त्रो श्रीदेशिकः उपवर्ष खण्डनकार इत्यवोचत् । उपवर्षादन्य एव ब्रह्मपुत्र- वृत्तिकारो बोधायन इति पक्षे अस्य दूषणस्य प्रसङ्ग एव नास्तीत्यास्ता- मेतत् । अथान्यदाह - - भूमज्यायस्त्वाधिकरणे श्रीभाष्ये 'ज्यायस्त्वं प्रामाणिकत्वमि- त्यर्थः' इति, श्रु० प्र० यां 'ज्यायस्त्वशब्दश्रवणात् व्यस्तोपासन- पक्षोऽपि सूत्रकाराभिमत इति चैन्न । वाक्यभेदः दिप्रसङ्गात् । ज्यायस्त्वशब्दस्तु प्रामाणिकत्वाभिप्रायेरणाप्युपपन्नः । इति च वृत्तिकारमतखण्डनं कृतम् | भगवत्पादभाष्येऽपि वृत्तिकारमत- मेतत् खण्डिनम् । कोऽयं वृत्तिकारः वृत्तिकारमतानुसारी वृत्तिकारभक्तः पर एव प्रष्टव्यः । इति । ज्यायस्त्वशब्दस्वारस्यमाश्रित्य व्यस्तोपासनस्यापि सूत्रकारा- नुमतत्वशङ्कातत्परिहारौ शङ्करभाष्ये स्थित श्रीमद्भाष्ये व्यञ्जतौ, श्रु० प्र० यां कण्ठोकौ । प्राचीनवृत्तिकारेण केनचित् स्ववृत्तिग्रन्थे तथोक्तमिति न शङ्करेगोच्यते, न वाचस्पतिना, नाप्यन्येन केनचित् | शङ्करसमकालिक एव कश्चित् पण्डितः एवं कथितवान् भवत् । अथवा तच्छिष्येष्वेव कश्चित् पृष्टवान् भवत् । अथवा ईयसुन्प्रत्ययबलात् तथाऽ- व्यर्थः प्रतीयत इति स्वयमेव इमां शङ्कां कृत्वा अधिकरणेषु पूर्वपक्ष- कल्पनन्यायेन 'केचित् कथयन्ति' इति श्रीशङ्करः 'कांश्चित्' कल्पयित्वा- ऽवदित्युपपद्यते । शङ्कराचार्योक्तोऽयं शङ्कापरिहारः उपपन्नत्वात् अवश्य - वक्तव्यत्वाच्च श्रीभाष्यश्रुतप्रकाशिकयोरप्यादृतः । अत्र स्वकीयपरकीय- ग्रन्थजातं सर्वे महता श्रमेणान्विष्य अवलोक्य इमान् 'कांश्चित्' वृत्तिका रत्वेन स्वयं व्यपदिश्य तत्खण्डनकरणात् वृत्तिकारखण्डनकारित्वं विशिष्टाद्वैतिष्यतीति प्रदर्शनाय शास्त्री यं प्रयासं वृथैव अङ्गीकार · तत्र नूनमयमनुकम्पनीयः । कोऽयं वृत्तिकार इति पृच्छति । यः कोऽपि