पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ ] अनुबन्धः ४०१ पण्डितः कञ्चिदलम् ? शब्दमयी देवता अपूर्व फलप्रद मिति हि जैमि- निमतं सुप्रसिद्धम्। “जैमिनिना तु उदाहृतं देवताध्यानविधानं तत्तद्देव- तावाचिशब्दध्यानविषयमिति निरूपितं सङ्कर्ष" इति नयमयूखमालि- कायां दीक्षिनेनोक्तं स्वयमयं सप्तसप्रतितमे पर्वणि उदाहरत् । तादृशे जैमिनीये सङ्घर्ष काण्डे अग्नीन्द्रादिदेवानां फलप्रदत्वप्रतिपादनं कथं भवेत् । कथं सङ्गतं स्यात् । अनेन "बोध्यम्” इत्युक्ते सर्वैः तदाज्ञावशंवदः अविचार्य तथैव बोद्धव्यम्, तथैव भोत्स्यन्ते सर्व इतिह ङ्कार महीघरोत्तुङ्गशिखरारूढो नूनं मन्यते । आनन्दगिरिवाक्यमिदमेकं पर्याप्तं देवताकाण्डस्थितिपारमाध्ये- प्रत्यायनाय | सुस्पष्टोक्तिमिमां स्वाभिमतसिद्धिपरिपन्थिनीं यथावदव- गन्तुमक्षमः महतामधक्षेपे उद्युक्त इति जितं कलिना । ८६. 'तस्य निमित्तपरीष्टिः' इति पूर्वमीमांसासूत्रं नमध्याहारेण उपवर्ष वृत्तौ व्याख्यातम् । तदयुक्तमिति श्रीदेशिकः सेश्वरमीमांसाया- माह । अतो वृत्तिकारभक्ता अपि तत्खण्डनपरा एते इति परिवाद करोति । 'नममध्याहत्यातिमहता क्लेशेन व्याख्यातम् । तदप्यनेन निरस्तम्' इति निरासं कृतवताऽपि अनुपदं 'अतो भगवानप्युपवर्पोऽप- रीक्षणीयत्वपूर्वपक्षमन्वारुरोह' इति तस्मिन् स्वबहुमानातिशयमाविष्कु- वता तस्य वस्तुतोऽनभिमत एव नमध्याहारपक्ष इति प्रत्यपादि । अत्राह शास्त्री 'बहिर्मधुरवचोविन्यासेन खण्डनं न कृतवानिव चाभिनयति । अहो महामायित्वं वेङ्कटनाथस्येति । स्वबहुमतेषु ग्रन्थेषु तत्र तत्र व्याख्यातारः 'अयं प्रौढिवादः' 'अभ्युपेत्यवादः' इति वाक्यानि योज- यन्तीति सर्वसाधारणमेतत् । न ते मायिनः । अयं तु सम्प्रति जनान मोहयितुं अवस्तुनि घोरां पिशाचीं, इङ्गाले भास्वत्स्वरूपं च प्रदर्शयिष्या मीति सङ्कल्प्य मायाकलामभ्यस्यति । प्राचीनवृत्ति कारखण्डनं बहुधा करोति शङ्कराचार्य इति पदे पदे