पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्ट तसिद्धिः [७४ : ८५ मीमांसाशास्त्रस्य काण्ड विशेषं स्तुत्य अस्मदाचार्यदूषणानि कुर्वन् महान्तं कोलाहलं वितनांति । अत्र चत्वारिंशतोवत्सरेभ्यः पूर्वं अस्म- दीये मीमांसाभ्युदयनःम्ति विमर्शग्रन्थे यद्वयमवोचाम तदुदाहरामः :- "एषामनि कर्ता भगवान् जैमिनिरिति बहवः | कंचिल्लिखन्ति काशकृत्स्न इति ४ । अत्रान्यतरावधारणमस्मच्छक्तिमतीत्य वर्तत इति प्राञ्च एबाशेरते ५ । अस्ति पुनरम्यूहितुमवकाशः काशकृत्स्नेन कृत एका देवताकाण्डः जैमिनिना चापर इति देवताकाण्डद्वयमा सोदिति |६ ( १२३ पुढे ) ६. "यः खलु जैमिनिः साध्यधर्मविचारार्थं द्वादशाध्यार्थी प्रणीय तत्राविचारितोऽपि कियानंशोऽस्तीत्यालोच्य तद्विचा- रार्थं पुनः सङ्कर्षणाख्यां चतुरध्यार्थी प्रणिनाय ", ३६६ [ शिवाकमणिदीपिकाप्रथमसम्पुटे ३५. पुढे ] “सङ्घष राकाण्डोऽप्यविचारित कर्मविशेषविषय एव । जैमि- निहिं द्वादशलक्षण प्रणीय तत्राविचारितांशमालोच्य पुनर्राप चतुर्लक्षण प्रणिनायनि प्रसिद्धिः । अत एव हि संहितमेतच्छा- रीरकं जैमिनीयेन पांडशलक्षणेनेति वृत्तिग्रन्थोऽपि सङ्गतः । अतएव प्रदानवदेवैयधिकरणे भाष्ये यत् संवादतयोक्तं 'नाना वा देवता पृथक्त्वात्' इति तत् जैमिनीय एत्र दृश्यते, न तु देवताकाण्डे काशकृत्स्नोये । अनोऽपि सङ्कर्षः कर्मविषय एव। तत्रैव केषाविद् देवताकाण्डत्र्यवहारोऽप्यस्तीति ।” 9 [ श्रीरङ्ग रामानुजमुनिवरचितायां ग्रन्थाक्षरमुद्रिताय श्रुतप्रकाशिकाव्याख्यायां भावप्रकाशिकायां ४४ पु० ] काशकृत्स्नसम्बन्धो मीमांसाया आसीदति 'मितश्च तत्प्रत्य- यात् ( ४. ३. १५५ ) इति सूत्रमहाभाष्यमन्थेनाप्यनेन ज्ञायते -