पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ विशिष्टाद्वैतसिद्धिः द्वितीयेऽध्याये - शुभ्रेणैव मृदा पश्चाद् विभृयात् सुसमाहितः ||५७ त्रिसन्ध्यासु सदा विप्रो यागकाले विशेषतः । श्राद्धे दाने तथा होमे स्वाध्याये पितृ तर्पणे ॥ ५८ श्रद्धालुरूर्ध्व पुराट्राणि बिभृयाद् द्विजसत्तमः । तद्धारयेद्धरेर्नित्यमूर्ध्वपुण्ट्र विधानतः ॥५६ श्राद्धं होमस्तथा दानं स्वाध्यायः पितृतर्पणम् । भस्मीभवति तत्सर्वमूर्ध्वपुण्ट्रं विना कृतम् ॥६०. ऊर्ध्वपुष्ट्रं विना यस्तु श्राद्धं कुर्वीत स द्विजः । सर्वं तद्राक्षसैनीतं नरकं चाधिगच्छति ॥६१ ऊर्ध्वपुण्ट्रविहीनं तु यः श्राद्धे भांज येद् द्विजम् । अनन्ति पितरस्तस्य विमूत्रं नात्र संशयः ॥६२ तस्मात्तु सततं धार्यमूर्ध्वपुष्ट्र द्विजन्मना । धारयेन्न तिर्यक्पुण्ट्रमापद्यपि कदाचन ||६३ तिर्यकपुष्ट्रधरं वि चण्डालमिव सन्त्यजेत् । सोऽनईः सर्वकृत्येषु सर्वलोकेषु गर्हितः ||६४ अष्टमेऽध्याये - नारायणः परं ब्रह्म विप्राणां दैवतं सदा । तस्य भुक्तावशेषं तु पावनं मुनिसत्तमाः ॥७१ हरिभुक्तोज्झितं दद्यात् पितॄणां च दिवानिशम् । तदेव जुहुयाइहौ भुञ्जीयात्तु तदेव हि ॥७२ हरेरनर्पितं यत्तु देवानामपिंतं च यत् । मधुमांससम प्रोक्तं तद् भुञ्जीयात् कदाच न ॥७३ हरेः पादजलं पाश्यं नित्यं नान्यद् (?) दिवौकसाम् सुराणामितरेषां तु फलपुष्पजलादिकम् ॥७४ [ ७३