पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९ ] अनुवन्धः - उक्तस्य सूत्रकृदिष्टत्वमाह - वदति इति । एतदेव, नवद मिति भावः । आत्मेति । स्वानन्यत्वेनेति यावन | सूत्राभि येतं तदुक्त या स्पष्टयति -- तथा, इति । भातस्य सर्वस्य तम्मिन्नध्यम्तत्वादित्यर्थः | बावःवस्थायामधिष्ठानभूत ब्रह्मात्म- तया परिशिष्टत्वादिनि भावः । ३४७ इति । यद्यद्वैतमेव औपनिषद् तत्त्वं तर्हि सूत्रं वाक्यं च तत्पर मेव भवतीति पूर्वपक्षे प्रदश्ये श्रीमाय्यकृतः सिद्धान्ते विस्तरेण शरीर कामावणियन्धर्म सामानाधिकरण्यमुपपाद्यान्ते इदं वदन्ति - इदमेव शरीरात्मभावक्षसं नादात्म्यं 'आत्मेति तूपगच्छन्ति ग्राहयन्ति च' इति वक्ष्यति । 'आत्मेत्येव तु गृह्णीयान् इति i च वाक्यकारः । इति । अत्र सूत्रं वाक्यं च कथं शरीगत्मभावलक्षवादात्म्यपरं, न तु वब्रह्माभेदपरमित नोपपादितम् । श्रुतप्रकाशिकायामपि परेण स्वरूपैक्यपरत्वेनोदाहृतं सूत्रं वाक्यकारवचनं च व्या चष्टे - इदमेवेत्यादिना | - इति पूर्वपक्षे तदनुगुणतचोदाहृतत्वं सिद्धान्ते एतदनुगुणतया व्याख्या- यमानत्वं च कंवत्तनुक्तम् । न तु विस्तृत विवरणं कृतम् । तत्रायं भावः । सूत्रबाक्ये अद्वैते क्लिष्टं योजनीये भवतः । न सिद्धान्ते । यथाश्रुतस्यै- वार्थस्य महणादिति । तदत्र स्वरूपैक्यस्य वाक्यकाराभिमतत्वाभिधानं लोकायतस्य तद्भिमतत्वाभिधानतुल्यमिति स्थितिः । “तत्त्वमसीति तीचः ब्रह्मणा सामानाधिकरण्यं स्वरूपैक्यनिबन्ध- नम्” इति शास्त्रिणः प्रतिज्ञा शून्यं तत्त्वमिति प्रतिज्ञातुल्या । “स आत्मा जगतः' इत्युक्तिः जगतः तन्निप्पाद्यत्वेन तदनन्यत्वनिवन्धना" इति यदुच्यते तद्युक्तम् । यतः स आत्मेत्युक्त या जगतः शरीरत्वं सिद्धयति । कार्यस्य जगतोऽपि तदात्मकत्वात् तदनन्यत्वं च सिद्ध्यति ।