पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ : ३५ ] अनुबन्धः ३३१ , सृष्टभिति गृहोत्वा स्वाद्रूपं कृतकमिति परे प्रत्यज्ञानत । अत्रोत्तरं 'रूपं व ' इति । रूपमात्रं हि श्रूयते । तत्र कृतकमिति विशेषणं कृतो भवद्भ- दयिते । विशेषगाभावान् स्वाभाविकं नित्यं तदिति प्रत्येत्तव्यम् । ननु रूपं स्वाभाविक्रमस्ति चेन् अस्माभिदृश्येत । नेत्याह - अतीन्द्रिय- मिति । तर्हि दृश्यत इति कथ' श्र तिराहेति चेदत्रोत्तरं - अन्तःकरण प्रत्य- क्षमिति । कुत इद्भवगम्यत इत्यत्राह - तन्निर्देशादिति । 'न चक्षुषा गृह्यते’ ‘मनसा तु विशुद्धेने'त्यादिश्रुतेरित्यर्थः । - 'तस्य च रूपस्यानित्यत्वादि वाक्यकारेणैव प्रतिपिद्धम्' इति वेदा- थ संग्रह श्रीसूक्त आदिशब्दग्राह्यं मायामयत्वम् | अनित्यत्वं निराकृत्य नित्यत्वे स्थापिले मायामयत्वं सुदूरं निरस्तं भवति । कथमत्र तन्निरास- लाभ इत्यत्र द्रमिडभाष्यविवरणमुखेन तात्पर्यदीपिकायां स दर्शितः । अञ्जसैव विश्वसृजो रूपम् । तत्तु न चक्षुषा ग्राह्यम | मनसा त्वकलुषेण साधनान्तरवता गृह्यते । 'न चक्षुषा... विशुद्धेन' इति श्रुनेः । न ह्यरूपाया देवताया रूपमुपदिश्यते । यथाभूत- वादि हि शास्त्रम्' ...... इत्यादि द्रमिडभाष्यम् । अत्र तात्पर्यदीपिका- - अञ्जली अव्यवधानेन, स्वाभाविकमित्यर्थः । ऐन्द्रजालिकवत् मायाकृतमति शङ्काव्यावृत्त्यथ माह - तत्तु, इति । मिथ्याभूतं दुष्टेन्द्रियग्राह्यम् । अदुष्टकरणग्राह्यत्वात् परमार्थभूतमित्यभि- प्रायः । पारमार्थ्यमेवोपपादयति - न हीति | अरूपाया रूपोप- देशः कथ' नेत्यत्राह – यथाभूतवादीति | - इति । अव्यवधानेन आगन्तुककारणव्यवधानं विन्ध | तेन लब्धोर्थ : स्वाभाविऋमिति । यद्यन्मिथ्या तत्तद् दुष्टेन्द्रियग्राह्यम् । तथा च शाबरं भाष्यं - - यस्य च दुष्टं करणम् इत्यादि । इह तु विना- क्तम् । तथा चादुष्टकरणग्राह्यत्वान्न मिथ्यात्वमिति भावः । पूर्वपदयभि-