पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० विशिष्टाद्वैतसिद्धिः [ ३४ : ३५ - प्राज्ञः सर्वान्तरः स्यात, लोककामेशोपदेशान, तथोदयात्पाप्म- नाम्' इत्यादिना | तस्य च रूपस्यानित्यतादि वाक्यकारेणैव प्रतिषिद्धम् – 'स्याद्रूपं कृतक्रमनुग्रहार्थं तञ्चेतसामैश्वर्यान् इति उपासितुरनुग्रहार्थ: परमपुरुषस्य रूपसङ ग्रह इति पूर्वपक्षं कृत्वा 'रूपं वाऽतीन्द्रियमन्तःकरणप्रत्यक्षं तन्निर्देशात् इति । यथा ज्ञानादयः परस्य ब्रह्मः स्वरूपतया निर्देशात् स्वरूपभूता गुरणाः तथा इदमपि रूपं श्रुत्या स्वरूपतया निर्दे शात् स्वरूपभूतमित्यर्थः । इत्यवोचन्। ‘भाष्यकारेणैतद् व्याख्यातम्' इत्युक्त्वा द्रमिडभाष्यग्रन्थं चोदाहरन । तत्र ‘स्याद्रूपं कृतकमनुग्रहार्थं' इति वाक्यग्रन्थं मर्नास निधाय तस्य स्वसिद्धान्तानुगुणमर्थं वदन् श्रीशङ्करः सूत्रभाष्ये अन्तर- घिकरणे ‘स्यात्परमेश्वरस्यापि इच्छावशात् मायामयं रूपं साधकानुग्रहार्थम्' इत्याह । इदं वाक्यग्रन्थविरुद्धमिति निरूपणाय श्रीभाष्यकृतः वाक्य ग्रन्थं सभाष्यमुदाहृत्य तात्विकमर्थं प्रतिपादयन्ति । तत्र 'स्याद्रपं कृतकं' इति कृतकत्वमुक्तम् | कृतकत्वं क्रियया निर्वृत्तत्वम् उत्पाद्यत्वम् । अनित्यत्वमिति यावत् । 'तस्य प्रमा च वचनैः कृतकेतरैश्चेत्' इति प्रसिद्धः प्रयोगः । कृतकेतरैः नित्यैर्वेदवच वचनैरिति ह्यर्थः । अन्योऽप्यर्थः मायामयमिति । इन्द्रजालवत् क्रियया निर्वर्त्यमानत्वात् । एतमेवार्थ मायामयमित शङ्कर आ । ऐश्वर्यात् सर्वशक्तत्वात् तच्चेतसां तदुपास- कानां अनुग्रहार्थ अभिमतसिद्धयर्थं कृतकं अरूपेणैव सता परमात्ममा तदानीमेव कृतं सृष्टं दर्शितं वा स्यादिति ग्रन्थार्थ: । एवमुक्तं भ वद्रूपस्यानित्यत्वं मायामयत्वं च निराक्रियते 'रूपं वाऽतीन्द्रियमन्तः- करणप्रत्यक्षं तन्निर्देशान्' इत्यनेन । वाकारोऽत्र `श्रूयमाणः पूर्ववाक्यस्य पूर्वपक्षपरत्वं प्रकाशयति । हिरण्मयः पुरुषो दृश्यत इति रूपं श्राव्यते । अत्र, अरूपत्वाद् ब्रह्मणः उपदिश्यमानमिदं रूपं उपासकानुग्रहाय ब्रह्मणा