पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 20 ) रोपातु तोयमिति प्रतीतिः । तोयवेन मरीचीनामेव ग्रहणात् धर्मिभूतानां तासां पुरत एव दृश्यमानत्वात् इहेति प्रतीतिः । न तु गङ्गायामिति । एवं मचितोयप्रतीतेरन्यथैव समञ्जसतया उपपत्तेः अनिर्वाच्यमरीचि तोये न किञ्चित् प्रमाणम् । नतरां अनिर्वाच्यदेहेन्द्रियादिषु । बाधाभावेन पारमार्थिकत्वस्यैव तषु दृढ़प्रतीतेः । तत्रैवं सति तत्र यदध्यासः तत्कृतेन दोषेण गुणेन वा अणुमात्रे पाप स न सम्बध्यत । 9B इत्यध्याससाधनप्रयोजनप्रदर्शनपरंभाष्यंभामतीकारःएवं योजयति-तत्त्वा वधारणाभ्यासः अनादिमपि निरूढनिबिडवासनमपि मिथ्याप्रत्ययमपनयति इत्येतत्तात्यर्यक्रमिभिति । इदं भाष्याक्षराननुगुणम् । अध्यस्तेन वस्तुना अध्यासधिष्ठानस्य गुणरूपो दोषरूपो वा यः कोऽपि विशेषो न भवतीति भाष्यग्रन्थार्थः स्कुदः। तत्र विद्यया अविद्यायाः बाधेऽपि वासनाऽनुवृत्ति र्भविष्यतीति शङ्कायाः, वासनाया अपि निवर्तनक्षमा विवेति समाधानस्य च का नामात्र सङ्गतिः । तर्हि कोऽत्र भाव इति चेत् उक्तमेतत् अध्यास साधनप्रयोजनप्रतिपादनपरमिदमिति । कुत आमनः कर्तृत्वभोक्तवादिक मध्यासेनोपपाद्यते । पारमार्थिकमेव कुत नेष्यते ? इत्यत्राह--तत्रेति । पारमार्थिकं चेत् विद्यया न निवर्तेत । अतोऽध्यस्तत्वं वाच्यम् । तदर्थ- मध्याससाधनम् । ननु अध्यस्तकर्तृत्वादेर्निवृत्तावपि तत्कृतो विशेषः आत्मनि स्थास्यत्येव । पुष्पसमुद्रके पुष्पापनयनेऽपि तत्परिमल इव । तथा च मुक्तयभावप्रसङ्ग इति चेन्न । अध्यस्तेन अध्यासाधिष्ठाने यस्य कस्यापि विशेषस्यानुत्पादनात् । न हि शुक्तिरजतेन शुक्तौ कश्चन विशेष आधीयते । अतो नानुपपत्तिरिति । "एवमयमनादिरनन्तो नैसकोिऽध्यासो मिथ्याप्रत्ययरूपः कर्तृत्व भोकृत्वप्रवर्तकः सर्वैलोकप्रत्यक्ष" इति भाष्यम् । शरीरभेदेन अभ्यास भेदादेकत्वमनुपपन्नम् । देहेन्द्रियार्थोपस्यनन्तरमेव अभ्यासमवृत्तेरना G